________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
श्री
द्वितीय प्रस्तावः।
अजितसेन | शीलवतीचरितम् । ॥३५॥
| विद्यते, अतो देव्यामन्दिरे प्राभृतीकर्त्तव्यमिदम् । अपराणि च फलानि प्रजानां निवेद्य पश्चादहं भोक्ष्ये, इति चिन्तयित्वा
भूपतिस्तत्फलं देव्यग्रे प्राहिणोत् । देवीपूजकेन तत्फलस्य देण्यानैवेद्यं विधाय स्वस्य पुत्रकलत्रादिभ्योविभज्य दवा स्वयमपि चखाद, परं सर्पण दष्टत्वाचत्फलमुग्रविषमयमासीदतस्तत्फलाशिनः पुत्रकलत्रादयः सर्वे तस्यामेव निशिपञ्चत्वमवापुः । प्रभाते च सञ्जाते तेषां मरणवार्ता नगरान्तःसर्वत्र प्रसरतिस्म । यतः-वार्ता च कौतुकवती विशदा च विद्या, लोकोत्तरः परिमलश्चकुरङ्गनाभेः । तैलस्य विन्दुरिववारिणि वार्यमाण-मेतत्रयं प्रसरतीतिकिमत्र चित्रम् ॥ १ ॥ विज्ञाततद्वृत्तान्तो नृपतिरितिनिश्चयामास, यदयंसकुटुम्बोदेवीपूजकोऽज्ञातफलभक्षणेनानियत । ततस्तत्कालसमुद्भूतकोधानलेन तप्तगात्रोनृपतिश्चेतसि पश्चाचापमकरोत्-अहो ? पक्षिजातिरपीदृशी कपटशीला ? विषफलमानीयाऽमृतफलमिदमिति ममवञ्चनाय तेनकीरेण समर्पितम् । यदि मया भक्षितश्चेन्ममाऽप्येतादृशीगतिरभविष्यत् , तस्मात्किमनेन दुष्टपक्षिसंरक्षणेन ? एवं मनसि विचार्य भूपतिस्तस्य निरागसः शुकस्य ग्रीवां मोटयित्वा मुधातममारयत् । ततो विषमयोऽयं वृक्ष इति विज्ञाय तस्यफलानि कोऽपिनाश्नातिस्म, अतस्तस्याधस्तात्फलानां महान् राशिरजायत । इतस्तनगरे धनपतिनामैकोवृद्धोवणि गासीत् , तस्य च चत्वारो नन्दना आसन् , ते दुष्टबुद्धयः स्त्रीलम्पटाश्चस्वमातापितरौ भापयित्वाताडयित्वाचतत्सश्चितां सम्पत्ति लुण्टयित्वा स्वाधीनामकुर्वन् । मातापितृभ्यां जठरपूर्त्तिमात्रमप्यन्नं तेनददुः । तदुःखेन दुखितो धनपतिः सभार्य इत्यचिन्तयत्-वामनयने ? आवयोः प्रतिदिवसमधिकाधिका दुःस्थितिः सम्पद्यते, पुत्राश्चदुर्बुद्धयो भूरित्रासमुत्पादयन्ति । अतोनृपतेर्वाटिकायां स्थितस्य विषवृक्षस्य फलानि भवयित्वा देहत्यागं यदि कुर्वस्तर्हिदुरन्तदुःखपारावारादस्मादावयो
For Private And Personlige Only