________________
ShriMahiyeJain AradhanaKendra
Acharya:sha.KailassagarsunGvanmandir
Make
* पश्चान्नृत्याऽवसाने सभास्थितेभ्यः सर्वेभ्योऽमृतफलानि तेन प्रदत्तानि । तत्रैवस्थिताः शुकास्तानिफलानि जक्षुः । नृपशुकस्तु
मनस्येवं व्यचिन्तयदिदं फलं यदि भूपतये ददामि तर्हिसदीर्घायुर्भूत्वा समुद्रमेखला पृथ्वीं पालयिष्यति, प्रजानां रक्षणश्चविधास्यति, एवं विचिन्त्य तदमृतफलं चञ्चुपुटेन गृहीत्वा नृपचरणारविन्दमभ्याययौ । भूपतिश्च स प्रोवाच-इदं फलमिन्द्रसभातो मया संप्राप्तमित्यादि सकलं तवृत्तान्तं निवेद्य स विरराम । ततोऽमृतफलं शुकागमनश्च निरीक्ष्य भूपतिः महाप्रेमसागरे निमजतिस । अथ शुकोनृपस्याभ्युदयमिच्छन् देवेन्द्रवैभवमचीकथन-हे नृपवर्य ? अस्यामृतफलस्य भरणेन जनाश्चिरायुषोभवन्ति, तस्मादनेकविधानि कष्टानि निषेव्य प्राणेभ्योऽप्यधिकवत्सलं भूमिरक्षकं त्वां मन्यमानोऽहं देवलोकादिदं फलमत्रानयम् । अतोमवानेवेदंफलं भक्षयित्वा मां कृतार्थ कुरुताम् । इतिशुकभाषितं श्रुत्वा नृपतिर्निजमानसे विचारयति स्मइदं फलं यदि केवलोऽहं जग्ध्वा दीर्घायुःसन् परेषां दुःखानि मरणानि च विलोकयामि, तस्मात्तत्फलं विभिद्यतबीजानि चोद्याने वापयित्वा तज्जन्यवृक्षाणां फलानि सर्वेजना भक्षयन्तु, तदनन्तरं वयं स्वादयामस्तदा सुष्ठुतरमेवं चिन्तयित्वा वनपालं समाहूय तत्फलबीजानि तस्मैप्रदाय स स्ववाटिकायां वापयामास । कतिभिर्दिवसैः क्रमेण महान् वृक्षोऽजनि फलितशासीत् । फलितश्चतं निरीक्ष्य नृपति हर्ष । ततोमालाकारमाहूयैवमादिशत्-अस्यभूरुहस्य स्वयं पतितानि पक्वानि फलानि ॥ मदने समानेतव्यानि । अथकतमेषु दिनेषु व्यतीतेषु सुपक्कमेकं फलं तवृतान्न्यपतत् । तत्फलं गृहीत्वा वनपाल आज्ञानुसारेण राजसमां प्रपद्यकृताञ्जलिपत्रओमुमोच । राज्ञातत्फलं स्वकरे लात्वा वीचितम् , तस्मिन्नेकछिद्रं दृष्ट्वा तेन वनपालोऽपृच्छि, कस्मादिदसच्छिद्रं जातम् ! मालाकारेणप्रोक्तम्-वृक्षोपरिसंस्थितेऽस्मिन्पक्षिचच्वादशः प्रायेण सम्भाव्यते । इदं प्रथम फलं
For Private And Personlige Only