________________
ShriMahavir JanArchanaKendra
Achanach
agus Gym
द्वितीय प्रस्तावः।
अजितसेन शीलवतीचरितम्। ॥३४॥
विविधां क्रीडां पश्यन्तः कालं नयामः, एतस्मिन्बेवानन्दमानिनो भवामः । परं त्वद्वत्पराधीनतया गहीतबन्धना वयं मिष्टपदार्थान् भोक्तुं नैवेच्छामः । पञ्जरस्थः शुको बभाषे-मदुक्तेः सारः प्रागल्भ्यख्यापनाय नैवाऽस्ति, हे वनचारिणः ? पञ्जरस्थं मां विलोक्य पराधीनोऽयमिति नाऽनुमन्यध्वम् , यतोऽहं भवादृशः स्वेच्छाचार्येवाऽस्मि । अथागन्तुकाः शुकाः प्रोचुः यद्येवमस्ति तर्हि पञ्जरे त्वां संस्थाप्य तस्यद्वारं कथं पिहितमस्ति ? मुधा त्वं मिथ्याप्रशंसां कुतोऽस्मान् श्रावयसि ? यदि त्वमस्मादृशः स्वेच्छाचारीति सत्यवचनो भवसिचेद्वयमद्यत्रिदशेशस्य सदसि रम्भावप्सरसा नृत्यं गीतञ्च विलो
कितुं व्रजामोऽतस्त्वमप्यस्माभिः साकं समेहि । ततो नृपशुकेनापि तेषां वचनं स्वीकृत्य भूपतिं समाहूय कथितम्- राजन् ? अद्य मम प्रियसुहृदोमीलनाय समागतास्तस्मात्तानानाविधानि सुस्वादुनिदाडिमादिफलानि समानाय्य यथोचित
सत्कारेणसन्तोषय । अथनृपतिस्तथैवस्वादिमफलादिभिस्तान्त्रीणयामास, ततोनृपशुकोनृपतिमित्यभ्यर्थयामास, भूपते ! सर्वोऽयं मम मित्रवर्गोऽद्यस्वर्गलोके नृत्यं प्रेचितुं व्रजति, तस्मात्रैः सह गमनाय मामाज्ञां देहि । इत्थंशुकोक्तिमाकर्ण्य नृपेणावादि-शुकरत्न ? यद्यत्कार्य त्वं कथयिष्यसि तत्सर्व विधातुमहं तत्परोऽस्मि, परं तव वियोगं क्षणमपि सोढुमसमर्थोऽस्मि, मम प्राणतोऽप्यधिक प्रियं त्वां गणयामि, इन्द्रलोके जिगमिषया गृहीताज्ञस्त्वं मां यमसदनातिथिंक समीहसे, अतः सावार्चा भवता मदओपुनर्नवक्तव्या । सकृत्वजातीयानां सङ्गमेजाते त्वं पुनरत्रागमिष्यसीति नैव सम्भावयामि । एवं नृपगिरं निशम्य स शुकोभूपति दृढतरं विश्वास्य किश्चित्सुभाषितवचनं श्रावयित्वा तस्य भूपस्य मनः समाधाय प्रयाणाा समादाय स्वमित्रैः साकं स्वर्गपुरी जगाम। तवेन्द्रसदसिगत्वा नृत्यादिकं तैः शुकैफेलोकि,
| ॥३४॥
For Private And Personlige Only