________________
ShriMahavir Jain ArachanaKendra
Acharya:shaKailassagarsunGyanmandir
| इति न निर्णीतम् , तस्मादधुना नृपाग्रे किञ्चित् मम विज्ञापनीयमस्ति । अतो भवान् भूपान्तिके गत्वा मदुक्तं वचनं निवेदयतु, येनाऽहं सद्गतिभाग भवामि । इत्थं तद्वचनं तेन नृपाग्रे समेत्याचख्ये। नृपोऽपि सत्त्वरं धनपालं सभामध्ये स
माकार्य पपृच्छ-रे दुराचार ? किं तव विज्ञापनीयं विद्यते ! सद्यस्तत्समाख्याहि । धनपालेन भणितम्-राजन् ? मदुक्तं वृमत्तान्तं सभासमक्ष समाकये पश्चाद्यत्कर्त्तव्यं तत्सुखेन विधीयताम् । भूपतिनाऽपि तद्वचनमङ्गीकृतम्, ततो धनपालो निजां
वार्ता कथयितुं प्रारेभे ( भूमण्डले चन्द्रवत्प्रकाशमानं चन्द्रपुराभिधं नगरं समस्ति, तत्र चन्द्रसेननामा यथार्थसंज्ञो नरेन्द्रो राज्यं पालयति, ततो दैवयोगेन कस्मिंश्चिदिने मृगयाभिलाषी स नरपतिर्वनान्तरं जगाम, तत्र गच्छन् स वमनि सम्प्राप्त रमणीयमेकंशुकं गृहीत्वा स्वमन्दिरमानयत् । स च कीरो महागुणाकरो नानाविधभाषानिपुणो विविधवा मिलापै - पति सन्तोषयन् न्यायकार्ये च स्वमतं प्रदर्शयन् राज्ञो निजप्राणतोऽप्यधिकवल्लभो बभूव । अथैकस्मिन्दिवसे स राजसद्मनि सुवर्णशलाकाभिर्विनिर्मिते मनोहरे पञ्जरे क्रीडारसमनुभवन्नस्ति, तावत्समये तज्जातीया अनेके शुकास्तत्पञ्जरं परितः समावृत्य तस्थुः । बन्धनस्थितस्य तस्य च निन्दा पारेभिरे । तदानीं राजशुकोऽब्रवीत्-हेभ्रातरः यूयंमदावासे समागताः, मां मिलित्वा सद्योनिन्दितुं लग्नास्तथापि मे नकाचित्क्षतिः, परं ममातिथ्यसत्कारं प्रथमं गृहीत्वा पश्चाद्यथारुचि मां स्तुवन्तु वा निन्दन्तु, युष्मान निवारयिष्यामि । इत्थं तदुक्तिं निशम्य शुकास्तं प्रोचुः-त्वं राजगृहे बन्धने पतितोऽसि, तस्मातव सत्कारं वयं नगृहीष्यामः, कारागृहसमानं पञ्जरमस्मभ्यं न रोचते, स्वगोदप्यधिकं सुखं त्वं मन्यस्व, तत्सुखं त्वमेव भुइच । तवातिथ्यस्यापेक्षां सर्वथा वयं न कुर्महे, वनवासिनोवयं समयोचितानि फलानि जग्ध्वा स्वतन्त्रतया सकले वने
For Private And Personlige Only