________________
द्वितीय प्रस्तावः।
कृत्वा सद्योहि । देव्युवाच-हेराजसेवक ? त्वदग्रेऽहं किं कथयामि ? अस्यनगरस्याधिपतीराज्याभिषेकमारभ्याऽद्यावधि भजितसेन प्रजानां संरचणं शुद्धभावेन करोति, राज्यमपि सुनीत्या यथायोग्यं पालयति, धर्मकार्येषु मुख्यो दयापालने बद्धकक्षो शीलवती- * विद्वज्जनपरिपालको दीनजनोद्धारकोऽयं भूपतिर्वर्त्तते । तथापि पूर्वार्जितदोषेणास्य नृपस्य प्राणापहारी महाघातोऽष्टमे चरितम् ।।
दिने जनिष्यति, तद्भयेनाहं रोदिमि, यदहोधर्मिष्ठोऽसौभूपतिर्दिवंगमिष्यति, जगति गुणिनां नराणां संस्मरणं देवा
अपि कुर्वन्ति, तेषाञ्च सुखेन स्वयं सुखिनः, दुःखेन च दु:खिनो भवन्ति । तस्माद्धन्या गुणाः, गुणैश्च सर्वत्र ॥३२॥ पदंनिधीयते । ईदृग्विधो महाप्रतापशाली नीतिप्रियो लोकवल्लभो नृपोऽस्या राजधान्यांनान्योभविष्यति । इत्थं
देवीवाचंनिशम्यधनपालोऽवदत्-हेमातः ? त्वां सविनयोऽहमेतावत्प्रार्थयामि, यदस्य संरचणस्यकश्चिदुपायो विद्यतेचेद्राहि । देव्यवोचत्-अस्य महाघातस्य यदि परावर्तनस्याचेदीर्घकालमस्य नृपतेर्जीवनं केनापि न विहन्येत, परन्तु तस्मिन्काले यदि कश्चिदुपायं करिष्यतिचेत्साऽऽवलिनिर्वस्य॑ति नूनम् । तच्छ्रुत्वा धनपालोऽपृच्छत्-जगत्पालिनि । तत्सम्बन्धिप्रयासमहं करिष्यामि, परमस्य विघातस्य समयो निवेद्यताम् । तवकृपया भवत्याः कथनानुसारेण सर्व त्वत्सहायेन विधास्यामि । देव्यब्रवीत्-इतोऽष्टमेऽति रात्रेमध्यकाले महिण्या समं नृपतिःप्रमोदनिर्भरोऽन्तःपुरवर्तिमुखशय्यायां भृशंनिद्रितो भविष्यति
तस्मिन्समयेराझ्या नासिकाविवरादेका भ्रमरी निःसरिष्यति, साचतस्मिोक्व भुजङ्गीभूय नृपतेर्दचिखपादाङ्गुष्ठं दयति, * तेनैवदंशेन राजा मृत्युमवाप्स्यति । परंतु तं समयं विदित्वा यदि त्वं तत्सन्निधीभ्य लाघवेन तं सर्प हनिष्यसि चेन्नृपति
निर्विघ्नतया जीविष्यति । परं तावत्कालमियं वार्चा पदकर्णगोचरा न मवेत्तथा त्वया कर्त्तव्यमन्यथा तब मृत्युभविष्यति ।
॥३२॥
For Private And Personale Only