________________
अस्मिन्कार्ये तव धैर्यस्याचेदुपायकरणे त्वं सजीभव, तव सहायमहं करिष्यामि खलु । इत्थं देवीवचनमङ्गीकृत्य तां देवीं प्रदक्षिणीकृत्य प्रणम्य च धनपालो राजमन्दिरमवाप । तदानीं निद्रावशं भूपतिं ज्ञात्वा तां वातामनिवेद्य शीघ्र स्वयमपि सुष्वाप । अथान्येयुः प्रभाते समुत्थाय स्वकार्यकरणे निमग्नतया स देव्युक्तं वृत्तान्तं व्यस्मात् । तथैव तत्स्थाने नियोजितः स यामिकोऽपि मां विमुच्य रात्रौ त्वं व गत इत्येता वार्ता नास्मरत् । तस्मात्सावार्ता तस्य स्मृतिगोचरा नाभूत् । अथैवंदिनेषु गच्छत्सु चाष्टमे दिने सम्प्राप्ते देव्युक्ता वार्चा धनपालस्य हृद्यस्फुरत् । ततस्तेन सर्वानात्मवर्गीयान्समाहूय विज्ञापितम् , परेधुर्मम किञ्चित्कार्य विद्यते, तस्मादहं ग्रामान्तरं गमिष्यामि, तत्रचदिनद्वयं स्थास्यामि, अतोऽस्यांनिशि केवलोऽहं पाहरिको भविष्यामि, वासरद्वयस्यमत्कृत्यं भवद्भिनिर्वाह्यम् । इदानीञ्च भवन्तः सर्वे सुखेन स्वपन्तु । इत्थं सर्वान्कथयित्वा | स्वयं स्वकार्यतत्परो बभूव, अन्येच सर्वे निद्रा भेजुः । ततो जाते निशीथे धनपालो विकोशं खड्ग करेकृत्वाऽन्तःपुरमास साद, महिण्या समं गाढनिद्रितं नरेन्द्र निरीक्ष्य नृपाङ्गनाया नासिकामभिलक्ष्यैकाग्रदृष्टया ध्यानारूढ इव स तस्थौ । एतस्मिन्समये देव्यागिरं सत्यापयन्ती कालरूपिणी भ्रमरी राझ्या नासिकारन्ध्राभिःससार, सा च सहसाभुजङ्गरूपं विनती नरपतेर्दक्षिणचरणमभिलक्ष्ययावत्प्रयाति तावत्सावधानतया धनपालो धृतधैर्यस्तीवेण खड्नेन तस्यभुजगस्यशिरश्छेद विधाय नरेन्द्रपर्यङ्कस्याधस्तानिपतिते रौप्यस्थाले भुजङ्गखण्डान्मृत्वामञ्चकस्याधोभागे स संस्थापितः । ततो धनपालो रुधिरलिप्तां करस्थितां खगलतां दृष्ट्वा खड्गात्पतितैरुधिरबिन्दुभिर्व्याप्तं राझ्या वक्षस्थलं च विलोक्य चिन्तयितुं लगा, प्रचण्डविषमयजन्तोर्विषमयरुधिरबिन्दूनां निपातेन कदाचिदियंनृपाङ्गनाविषमूच्छिता भवेदतस्तद्रुधिरं निवर्त्तयामि, परं
For PvAnd Personale Only