________________
ShriMahavir JanArchanaKendra
Acharya:sha.kathssagarsunGvanmandir
स्वीकृत्य तस्मिन्नेवस्थाने स तस्थौ । इतोऽन्येधुनिशीथसमये दूर रुद्यमानस्येव कस्यचिद्ध्वनिपस्य श्रवणातिथिर्बभूव । तदानीं भूपतिः स्वचेतसि व्यचिन्तयत्-नीतिवेदिनोमे राज्य कीदृशोऽयं नरो दीनावस्था प्रयातः, यतोऽर्द्धरात्रिसमये रोदनं करोति, तस्य शुद्धिं तु कारयामि । यतः-पक्षिणाश्च बलं व्योम, मत्स्यानां विहितं जलम् । दुर्बलानां बलं राजा, | बालानां रुदितं बलम् ॥१॥ अतो निर्बलस्य नृपतिबलमवश्यमेव भाव्यम् । यतः प्रजाः सुखवर्तिन्यो भवन्ति चेन्नरपतिरपि सुखीस्यात् । अतस्तं दुःखिनं शोधयित्वा तस्य दुःखान्तं विदधामि । इत्थं मनसि विचार्य भूपालः प्राहरिकं नरमाजुहाव, तदानीं प्राहरिकस्थाने दुःखितो धनपाल आसीत् । सोऽपि नृपशब्दं समाकये तत्सन्निधौ समागत्य जगाद-अन्नदायक ?
आदिश्यताम् , भवदाज्ञाविधाने तत्परोऽस्मि । नृपेण समादिष्टम्-निशीथसमयेऽद्य को रोदिति ? तस्य निर्णयं कृत्वा शीघ्र | मां निवेदय । इति नृपाज्ञा शिरसि समाधाय स्वस्य स्थानेऽन्यं प्राहरिकं नियोज्य स्वयं रुदनध्वनिमाकर्णयँस्तदनुसारेण व्रजन्परितोऽभ्रमत, तथापि तच्छुद्धिं न लब्धवान् । सर्वाःप्रजाः सुखशान्त्या निद्राणाः संप्रेक्ष्य स गोपुरद्वारमभिययौ । तत्र स्थितःस बहिर्भागादागच्छन्तध्वनि विज्ञाय गोपुरद्वारं समुद्धाव्य बहिनिश्चक्राम । ततो रुदनशब्दानुसारेण प्रचलन्स दूरस्थिततनगरदेव्या भवनानिःसरन्तं शब्दं श्रुत्वा तत्र गत्वा चाभ्यन्तरे प्रविश्य परितः पश्यतिस्म, परं कोऽपि मनुष्यस्तेन न लक्षिता, साश्रुलोचनां देवीं विलोक्य धृतधैर्यः कृताञ्जलिः सन् स्वयं देव्या अग्रे स्तुतिश्चकार-हे जगजननि ? सर्वजनरक्षिके ! त्वं सकलभुवनजनानां कष्टनिवारिकासि । अहश्च नृपाज्ञया समागतोऽस्मि, निशीथेरोदनं कः करोति ? तस्य शुद्धिहेतवे सर्वत्र परिभ्रमन्भवत्याः सन्निधौ संप्राप्तोऽस्मि । हे अम्बिके ? भवत्यानेत्रकमलादश्रुपातस्यकारणं मयि कृपा
For Private And Personlige Only