________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवती -
चरितम् ।
॥ ३१ ॥
++++****+++++
www.kobarth.org
खतां याते, न कोऽप्यस्ति सहायवान् । पिता माता तथा भार्या, भ्राता वाऽथ सहोदरः ॥ ६ ॥ पिबन्ति मधु पद्येषु भृङ्गाः केसरधूसराः । हंसाः शैवालमश्नन्ति, धिग्दैवमसमञ्जसम् ॥ ७ ॥ दैवं फलति सर्वत्र न विद्या न च पौरुषम् । समुद्रमथनाल्लेभे हरिर्लक्ष्मी हरो विषम् ॥ ८ ॥ यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्त्तारमनुगच्छति ॥ ९ ॥ पुरुषः पौरुषं तावद्यावदैवन्तु सन्मुखम् । विपरीतगते दैवै, पुरुषो न च पौरुषम् ॥ १० ॥ तथैव ममाना सम भवत् । हे प्रभो ? मयेदानीं किं विधातव्यम् ? मदन्तिके वराटिकामात्रमपि धनं नास्ति, दुर्दशैवशरणमवशिष्टम् । एवं ॐ चिन्तयतस्तस्येतिबुद्धिरुदपद्यत, यस्मिन्नगरे येन स्वज्ञातिजनैः सम्बन्धिभिः कौटुम्बिकसुहृद्वणैश्च सह विविधवैभव सुखानि भुक्तानि तस्मिंस्थाने स कदाचिन्निर्धनतामवाप्नुयात्तर्हि तत्स्थानंपरित्यज्य देशान्तरेऽरण्येवा गत्वाभिचादीनांसवनं कुर्यातद्वरम्, परं कुटुम्बिजनेषु निःस्वतया नस्थेयम् । यथा व्याघ्रगजेन्द्रसेविते वने वासो वरम्, वृचस्याधस्तात्पर्ण कुटीं निवध्य पक्कफलानामशनेन जलपानेन च निर्वाह: शोभनः, तृणशय्यावल्कलपरिधानादिकमपिश्रेयस्करं मन्ये, परं बन्धुजनेषु सम्पदात्येषु निःस्वस्य जनस्य जीवितं धिगस्तु । इत्थंध्यात्वा सकुमारः स्वकीयं लक्ष्मीपुरपत्तनं परित्यज्य देशान्तरं प्रतस्थे । ततः स कतमैर्दिवसैः परिभ्रमन्वर्त्मनि विविधां वेदनां सहमानो मणिपुरपत्तनमियाय । तन्नगराधिपतिः प्राप्तयौवना मदनसेनाभिधः पराक्रमशाली तेजसा तिग्मरश्मिरिवास्ते, तत्सन्निधौ गत्वा विनम्रः शिरसा तं वन्दित्वा स धनपालो राजसेवां समीहमानोनिजाभिप्रायं ज्ञापयामास । नृपेणावादि - साम्प्रतं त्वद्योग्यं कार्यं नास्ति मे, तथाऽपि प्राहरिककर्मणि यदीच्छास्याच्चेदस्यरङ्गप्रासादस्य बहिर्भागेयामिकस्थाने त्वं तिष्ठ, पचादपरस्मिन्कार्ये त्वां योजयिष्यामि । इत्थं नृपवचनं
For Private And Personal Use Only
40/++******++++***
Acharya Shri Kassagarsun Gyanmandir
द्वितीयः
प्रस्तावः ।
॥ ३१ ॥