________________
मारेण महर्जमात्रं विचिन्त्य प्रोक्तं-रे तिके ? यस्तने दिने तब स्वामिन्यै मया नवप्रसरो यो मौक्तिकहारः प्रदत्तः स तस्याः सकाशादानीय मह्यं प्रदीयताम् । दास्पपि महाधूर्ता कूटकर्मविधायिनी बभूव, यतः सञ्जनस्य परिवारः सत्कर्मशाली भवेत् ।
परमेतादृशनीचकर्मसेविन्यास्तस्याः परिजनोऽपि तादृशस्तत्र का संशयः? सा दासी किश्चिद्गृहान्तरं गत्वा कूटं प्रत्युत्तरमदात्मारे विरुद्धवादिन् ? मम स्वामिनी कथयति त्वदीयो हारो मया न विलोकितः, कीदृग्विधस्तव हारः! यस्य स समर्पितस्ता प्रति
गत्वा तं मार्गय, उचमपुरुषाणामीदृशं वृथाऽपवादमोचनमनुचितम् । त्वं तु महेभ्यसू नुरसि, मादृशस्य रङ्कजनस्य गले किंपतसि!
इत्थं तदुक्तिश्रवणेन संभ्रान्तमना धनपालो मनसि पयाचापं प्रकुर्वाणो व्यचिन्तयत्-रे दैव! मदीयाः समृद्धयः क गताः! * साम्प्रतं विपद्गणः कृतः संप्राप्तः ? पुरा पितुः सनिधिस्थं मां जना उपादिशन् , तत्स्मरखमद्य मे स्फुरितम् , तद्यथा-याषच्छु
भानां कर्मणामुदयो भवति तावच्छशाङ्ककान्तिशुभ्राणिमन्दिराणिरथातुरगादिपशवो विलासवत्यः प्रमदाः श्वेतातपत्रावि चामरव्यजनानि च प्रस्फुरन्ति । लक्ष्मीसुखमपि तावदेव, यदाच शुभकर्म चीयतां याति तदा तज्जन्यः सर्ववैभवः कामक्रीडाक्लेशेन त्रुटितस्य मौक्तिकहारस्प मुक्तागण इव युगपत्प्रतिदिशं विशीर्यते । वस्तुतः सकलसुखानिविनश्यन्ति । उक्तञ्चदैवमुल्लकच यत्कार्य, क्रियते फलवन तत् । सरोम्भश्चातकेनातं, गलरन्ध्रेण गच्छति ॥१॥ न केवलं मनुष्येषु, दैवं देवेष्वपि प्रा । सति मित्रे धनाध्यचे, चर्मप्रावरणोहरः ॥२॥ सच्छिद्रो मध्यटिला, कर्णः स्वर्णस्य भाजनम् । धिग्दैवं निर्मलं चन्नुः, पात्रं कजलभस्मनः ॥ ३ ॥ भगवन्तौ जगोत्रे, सूर्याचन्द्रमसावपि ! पश्य गच्छत एवास्तं, नियतिः केन लक्ष्यते ॥४॥ किं करोति नरः प्राज्ञः, शूरो वाऽप्यथ पण्डितः। दैवं यस्य फलान्वेषि, करोति विफलाः क्रियाः ॥५॥ देवे विसु
For Private And Personale Only