________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
* द्वितीयः
प्रस्तावः।
अजितसेन शीलवतीचरितम्। ॥३०॥
भिचानमपितुभ्यं न दास्यति । अतस्तामसती परित्यज्य मया सार्द्ध सत्वरं समागच्छ, एवं विधानि प्रधानोक्तवचनानि श्रुत्वास्वमनसि विचार्य विलजितो धनपालः प्रधानेन सह निजगृहं गन्तुमक्रमत । तदानीं सा गणिका स्वचेतसि विचिन्तयितुं लग्ना-इतोगमनानन्तरमसौमहेभ्यसूनुमावराटिकामात्रमपि द्रव्यं न दास्यति, अतोयत्किश्चिद्धनमस्मिन्समये गृहीष्यामि तदेवात्मीयमिति विचार्य तयाकटाक्षमिषेण पुनः स वणिक्सुतो निजान्तिके समाहूतः। धनपालः प्रधानसझं परित्यज्य गणिकान्तिकं जगाम, गणिकाऽवदत्-प्राणवल्लभ ! अद्यवासरे मे प्रियसखीमिलनाय जिगमिषा वर्तते, अतो भवतः कण्ठस्थितो मौक्तिकहारो मह्यं प्रदीयताम् , आगत्य च तं पुनस्तुभ्यं दास्यामि, एतदुपकार यावजीवं न विस्मरिष्यामि । धनपालोऽवादीव-प्रिये ! मदीयोऽयं हारस्त्वदधीन एव ज्ञातव्यः, इति निगद्य तेन स्वहस्तेन स्वकण्ठादुद्धत्य स तस्याः कण्ठे निचिचिपे । ततः स स्वगृहमियाय । अथ ज्ञातिरीतिमनुसरन्धनपालः स्वजनकस्य स्मशानभूमौ देहसंस्कारं निर्वयामास । स्वप्रियायास्तु विस्मरणं तस्य सञ्जातम् । द्वितीयस्मिन्दिने प्रधानेन धनपालोऽभाणि-अद्य प्रभृति भवते यद्रोचते तद्विधीयताम् , इदमवशिष्टं यत्किश्चिद्वस्तुजातमस्ति तत्सर्व मदीयमस्ति, यतो भवजनकेनैव कृतज्ञतया मे सर्व पारितोषिकी कृतम् । इत्थं तदुक्तिश्रवणेन भृशं निःश्वस्य साश्रुलोचनो धनपालस्तस्याःपण्यस्त्रियाः सदनं जगाम । यावरत आगच्छन्तं तं सा वारवनिता विलोकयति तावन्निजदास्या गृहद्वारं निरोधयतिस्म । ततो द्वारदेशमागत्यद्वारमुद्घाव्यतामिति धनपालेन भृशमुद्घोषेकृतेऽपि न कोऽप्युत्तरं ददाति, नापितदुद्घाटयति, यदा तेनासकृदुःस्वरेण विरावाविहितास्तदा तद्दास्येकावोचत्-ममस्वामिन्यधुना लब्धास्वास्थ्या विषण्णाऽस्ति, मीलनावसरो नास्ति, यः कश्चिद्भवेत्स सत्वरं गच्छतु । ततस्तेना
For Private And Personlige Only