________________
Shri Mahavir Jain Aradhana Kendra
+133+8+)
www.kobatirth.org
सारसा-निर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः । पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः, सर्वः कार्यवाजनोऽभिरमते तत्कस्य कोवल्लभः ॥ १ ॥ दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालना-द्विप्रोऽनध्ययनास्कुलं कुतनयाच्छीलं खलोपासनात् । ह्रीर्मद्यादनवेचणादपि कृषिः स्नेहः प्रवासाश्रया - न्मैत्रीचाप्रणयात्समृद्धिरनयात्स्वार्थी सदा बान्धवः ।। २ ।। मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरं, कार्येण द्विजमादरेण युवतिं प्रेम्णा शमैर्बान्धवान् । अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्ख कथाभिर्बुधं विद्याभीरसिकं रसेन सकलं स्वार्थेन कुर्याद्वशम् || ३ || कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः, स्त्रीभिः कस्य न खण्डितं भुविमनः को नाम राज्ञां प्रियः । कः कालस्य न गोचरान्तरगतः कोऽथगतो गौरवं, को वा स्वार्थपरायणो न समभूत्रैलोक्यवर्त्तीजनः ॥ ४ ॥ सन्तदमृतेन किं यदि खलस्तत्कालकूटेन किं, दातारो यदि कल्पशाखिभिरलं यद्यर्थिनः किं तृणैः । किं कर्पूरशलाकया यदि दृशः पन्थानमेति प्रिया, निःसारे जगतीतले यदि जनः स्वार्थ्यस्ति किं व्याधिना ॥ ५ ॥ लोभवेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः, सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् । सौजन्यं यदि किं गुणैः स्वमहिमा यद्यस्ति किं मण्डनैर्निःसारे जगतीतले यदि जनः स्वार्थ्यस्ति किं व्याधिना ॥ ६ ॥ क्षान्तिवेद्वचनेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां ज्ञातिवेदनलेन किं यदि सुहृद्दिव्यौषधैः किं फलम् । किं सर्वैर्यदि दुर्जनाः किमु धनैविद्याऽनवद्या यदि, निःसारे जगतीतले यदि जनः स्वार्थ्यस्ति किं व्याधिना ॥ ७ ॥ तस्मात्सर्वे सम्बन्धिनः स्वार्थसाधका विभावनीयास्त्वयानूनम् । इदानीमेव तव दुरन्ता स्थितिर्भाविनीतिसत्यं त्वं जानीहि असौ गणिका श्वस्तनदिने
For Private And Personal Use Only
20K-*++193+******+******+*--
Acharya Shri Kasagarsun Gyanmandir