________________
Shri Mahavir Jain Aradhana Kendra
श्री
अजित सेन
शीलवतीचरितम् ।
॥ २९ ॥
++ -
*****++***
www.bbatirth.org
न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, वेश्याः स्मशानघटिका इव वर्जनीयाः ॥ ५ ॥ जात्यन्धाय च दुर्मुखाय च जराजीर्णाऽखिलाङ्गायच, ग्रामीणाय च दुष्कुलाय च गलत्कुष्टाऽभिभूताय च । यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्वया, पण्यस्त्रीषु विवेककन्पलतिकाशस्त्रीषु रययेत कः || ६ || केशः कुन्दमिपादिवोपहसति द्रव्यैर्विहीनाञ्जनान्न्यूनं ग्रन्थिधनं विलोकितुमिवोद्भवः स्तनस्तिष्ठति । प्रेमच्छेदकृपाणवल्लिसुषमारो मालिरालम्बते, यस्याः सा कथमस्तु चेतसि चमत्काराय वाराङ्गना ॥ ७ ॥ वाप्यांस्नाति विचक्षणो द्विजवरो मूर्खोऽपिवर्णाऽधमः फुल्ल नाम्यति वायसोऽपि हि लतां या नामिता बर्हिणा । ब्रह्मचत्रविशस्तरन्ति च यया नावा तयैवेतरे, त्वं वापीव लतेवनौरिवजनं वेश्याऽसि सर्व भज ॥ ८ ॥ तस्माद्धे धनपाल ! अधुनापि सन्मार्ग समाश्रय, दुर्जनोचितं दुराचारं परिहर, पैतृकं धनं त्वया स्वहस्तेनैव विनाशितमग्रे तव का गतिर्भविष्यति ? तस्य त्वं विचारं कुरु यथा कट्वौषधं भक्षणकाले दुःखजनकं परिणामे सुखकरं शरीरस्थव्याधिविनाशन सम्पद्यते, तथैवममेदं वचनमायतौ हितकरं तव भविष्यति, यावदेवं न मन्यसे तावत्रं सुखभाजनं कदाऽपि न भवि - ब्यसि, उक्तश्चान्यत्र-परिणामसुखेगरीयसि, व्यथकेऽस्मिन्वचसिचतौजसाम् । प्रतिवीर्यवतीवभेषजे, बहुरल्पीयसि दृश्यतेगुणः ॥ १॥ अतोहितवाक्यमनादृत्य ये स्वेच्छावर्त्तिनो भवन्ति ते नराधमा दुरन्तदुःखोदधौ निमज्ज्य म्रियन्ते । हे श्रेष्ठिन् ! परितोदृष्टिं प्रसार्य विलोकय, अद्ययनिरीचसे, तत्परस्मिन्दिने न इच्यसे । तव पितुर्मरणाचद्गृहस्य व्यवस्था सकलाऽपि त्वदीयकुत्सिताचरणेन विलयंगतास्ति । त्वत्पितुरग्निसंस्कारं विधाय सर्वेजनाः स्वस्वगृहं गमिष्यन्ति, दुःखभागिनस्तव मुखाऽवलोकनमपि ते नकरिष्यन्ति । यतः - सर्वे सम्बन्धिनः स्वार्थैकपरायणा भवन्ति, तद्यथा-वृक्षं चीणफलं त्यजन्ति विहगाः शुष्कं सरः
For Private And Personal Use Only
Acharya Shri Kallissagarsun Gyanmandir
द्वितीय:
प्रस्तावः ।
॥ २९ ॥