________________
ShriMahavir JanArchanaKendra
Acharya:shkailassagarsunGyanmandir
वितीर्य तां श्रेष्ठिनी तत्पितु गृहं प्रेषयामास । ततः स प्रधानः स्वयं यत्र धनपालोऽवस्थित स्तत्र वेश्यासदने जगाम, तत्र स्थितं धनपालंदृष्ट्वा स प्रोवाच-कुमार भवतस्तातोऽधुना स्वर्गगामी सातस्तस्मादिदानीं भवता स्वगृहेगन्तव्यमन्यथा लोके तव महादुर्यशोजनिष्यति, इति प्रधानोक्ति समाकर्ण्य धनपालोऽवदत्-रे प्रधान ? भवानत्रकुतः समायातः ? सत्त्वरमह मागच्छामि । एवमसमञ्जसंतद्वचनं निशम्य प्रधानः स्वमनसि ज्ञातवान् , यदिदं धनरक्षणं प्रागेवविहितं तन्मया योग्यमेव कृतम् । यावदयं स्वजनकोपार्जितं द्रव्यमसेविष्यत तावद्विशुद्धमार्गनागमिष्यत् । आधुनिकप्रवृत्तिनिरीक्षणेन प्रतिदिनं तस्यदुःस्थितिः संभाव्यते । इति चिन्तयता प्रधानेन पुनः स जगदे-कुमार! नायं विलम्बनसमयः पितृमरणे श्रुतेसति कार्यशतान्यपि विहाय गमनमेवोचितं सजनानाम् । इत्थं प्रधानगिरं समाकर्ण्य विषयान्धमतिर्धनपालोऽवदत्-रे प्रधान ! त्वं गृहं याहि, गृहागमनेन मे किं प्रयोजनम् ? यूयं सर्वे प्रधानवर्गाः सम्बन्धिनश्च मिलित्वा मृतं ममपितरं शिविकामारोप्याऽस्मिन्नेव मार्गे समानयत । अहमपि भवद्भिः सहास्मादेवस्थानादागमिष्यामि, एवं कृते मम गमनागमनप्रयासोऽपि न स्यात् । स्मशानभूमौ च वयं सर्वे सार्द्ध गमिष्यामः । ईदृग्विा तदुक्ति भुत्वा चेतसि चमत्कृतिदधानः प्रधानस्तमवोचत्-- | श्रेष्ठिसूनो ? अनागते त्वयि भवतः पितामरणाऽवसरे स्वयमेव समग्रं धनं भाण्डादिकं सकलं वस्तुजातं रथाश्वोद्यानप्रासादप्रभृति सर्व च धर्मकार्येषु न्ययुत। अवशिष्टं किमपिनास्ति, यदि तस्मिन्समये भवानागमिष्यत्तदा स कतमद्धनं भवदर्थेऽरक्ष्यत् । परन्तु त्वां मधुबिन्दुलोभेन वेश्याजनमोहपाशे निपतितं विज्ञाय सर्व धनं तेन व्ययितम् । भवतश्च कृते वासगृहमेकमवशिष्टमस्ति, तथैव कानिचित्पात्राणि मह्यं समर्पितानि त्वदीयजनकेन, यस्माद्भवतः पत्नी बहुदुःखिता जाता, पुन
For Private And Personlige Only