________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवतीचरितम् ।
॥ २७ ॥
+1+++++++**
www.bobatirth.org.
सोsपि तं तथैवकथयित्वा पश्चाद्वलितः, तथाऽपि धनपालस्तु गृहं नागमत् । एवं त्रिचतुर्वारं समाहूतोऽपि स नागतस्तदानीं श्रेष्ठिनो मुख्येन कार्यवाहकेन विज्ञातमस्मदीय: सर्वप्रयासो विफलो जातः, रे? इदानीं किं कर्त्तव्यमितिचिन्तामनेनतेन पञ्च पद् पुरुषास्तमानेतुं युगपत्प्रेषिताः, तेषां बलात्कारं वीक्ष्य तस्माद्वेश्याग्रहानिष्क्रम्य स स्वगृहं प्रयाति तावत्तस्मिन्नेववर्त्मनि निजसमनिस्थिताऽन्या पुरयोषित कटाक्षमिषेण स्वसन्निधौ तं समाजुहाव । ततो ज्ञाततदीयसङ्केतोधनपालः स्वगृहगमनात्पराङ्मुखीभूय तत्र गन्तुं प्रवृत्तस्तस्मिन्नवसरे भृत्यास्तं प्रोचुः श्रेष्ठित ? तीर्थकल्पो भवतः पिता मरणाभिमुखो " जातस्तथाऽपि त्वं वेश्यागृहं व्रजसि, तदनुचिताचरणं परित्यज्य सत्वरं स्वगृहं गत्वा तातस्य संभावनां कुरु । इत्थं भृत्यैनिंवारितोऽपि धनपालस्तान्निर्भर्त्स्य वाराङ्गनानिकेतनं जग्मिवान् । भृत्यवर्गस्तु बहिः स्थितस्तावच्छ्रेष्ठिगृहादन्ये जना स्तत्र समागत्य श्रेष्ठिनोमरणवृत्तान्तं तं निवेदयामासुः । पितृमरणं श्रुच्चाऽपि विषयासक्तमानसो धनपालस्तद्गृहान्ननिश्चक्राम । ततो व्याकुलितचेतसः सर्वे जना व्याघुट्य श्रेष्ठिगृहं समाजग्मुः । पितृमरणं श्रुत्वाऽपि वेश्यासक्तचेतसं धनपालमनागतं विज्ञाय तस्यश्रेष्ठिनोमेधावी मुख्यश्चैकः कार्यकर्त्तानिजाज्ञानुवर्त्तिनोऽन्यान्कार्यवाहकजनान्संमेल्य निजगाद - महेभ्यस्त्वधुना कालवशंगतः, तत्पुत्रश्च दुर्व्यसनाभिभूतो वेश्याजनप्रसक्तबुद्धिः सञ्जातोऽस्ति तस्मात्स्वल्पकालेनैव निजजनकोपार्जितानां महासम्पदां व्ययं द्युतादिव्यसनपरायणैः कुमित्रैः सह क्रीडमानोधनपालो हन्त करिष्यति । तन्मित्राणिचव्यापारादिकार्येषु तस्य मनो व्याकुलयिष्यन्ति, तस्मादस्माभिरस्य सर्वसंपदः संरक्षणीयाः, यावत्तस्य हस्तगतास्ता न भवेयुः । इत्थं विचार्य तदानीमेव तस्य श्रेष्ठिन उत्तरक्रियासाधकमात्रं द्रव्यं मुक्त्वाऽवशिष्टं सर्व धनं स प्रधानः स्वसाञ्चक्रे । किञ्चिद्रव्यश्च तत्पत्न्यै
For Private And Personal Use Only
->**<••-*****++***++++**
Acharya Shri Kissagarsuri Gyanmandir
द्वितीयः
प्रस्तावः ।
॥ २७ ॥