________________
इत्थंनिगद्यस भृत्यानिजगृहंप्रेषीत् । इतो गृहकर्मणि संस्थिता लक्ष्मीपतेः सम्बन्धिनोधनपालागमनं प्रतीचन्ते तावद्धृत्यास्तत्रसमागत्य तदुक्तं वचनमाचख्युः । कियान्समयोव्यतीतस्तथापि व्यसनासक्तमानसः सतु नागतः। वितथवादिनांवचनमप्रमाणं सदा विज्ञेयम् यतः-नाऽसत्यवादिनः सख्यं, न पुण्यं न यशोभुवि । दृश्यतेनापि कल्याणं, कालकूटमिवानतः ॥१॥ असत्यमप्रत्ययमूलकारणं, कृवासनासद्म समृद्धिवारणम् । विपनिदानं परवञ्चनोर्जितं, कृताऽपराधं कृतिभिर्विवर्जितम् ॥२॥ यशो यस्माद्भस्मीभवतिवनवहेरिववनं, निदानं दुःखानां यदवनिरुहाणामिव जलम् । न यत्र स्याच्छायाऽऽतप इव तपः संयमकथा, कथश्चित्तन्मिथ्या वचनमभिधत्ते न, मतिमान् । ३ ॥ जिह्वकैवसतामुभेफणवतां सृष्टुश्चतस्रो मता-स्ता सप्तैव विभावसोनियमिताः षट्कार्तिकेयस्यच । पौलस्त्यस्यदशैवताः फणिपतेर्जिह्वासहस्रद्वयं, जिह्वालक्षसहस्रकोटिगणना all नो दुर्जनानां मुखे ॥४॥ दुर्जनः प्रियवादीच, नैतद्विश्वासकारणम् । मधु तिष्ठति जिह्वाग्रे, हृदि हालाहलं विषम् ।।५।। दुर्जनेन
समंसख्यं, प्रीतिश्चैवनकारयेत् । उष्णो दहति चाङ्गारः, शीतः कृष्णायतेकरम् ॥६॥ दृष्टो वा सुकृतशतोपलालितो वा, श्लिष्टो वा व्यसनशताभिरक्षितो वा । दौः शील्याजनयति नैवजात्वसाधु-विसम्भं भुजग इवाङ्कमध्यसुप्तः ॥७॥ एकः खलोऽपि यदि नाम भवेत्सभायां, मोघीकरोति विदुषां निखिलप्रयासम् । एकापि पूर्णमुदरं मधुरैः पदार्थ-रालोड्य रचयति हन्त न मक्षि
का किम् ॥ ८॥८॥ हालाहलं खलु पिपासतिकौतुकेन, कालाऽनलं परिचुचुम्बिपति प्रकामम् । व्यालाधिपञ्च यततेपरिरन्धु 1 मद्धा, योदुर्जनं वशयितुं कुरुते मनीषाम् ॥ ६ ॥ प्राक्पादयोः पतति खादति पृष्ठमांस, कर्णे कलं किमपि रौतिशनैर्विचित्रम् ।
छिद्रं निरूप्य सहसा प्रविशत्यशङ्कः, सर्व खलस्यचरितं मशकः करोति ॥ १० ॥ पुनरन्यो भृत्यस्तैस्तस्याह्वानकृते प्रेषितः,
For Private And Personale Only