________________
Achanach
sagan Gyaan
द्वितीयः प्रस्तावः।
अजितसेन शीलवतीचरितम् ।
॥ २६॥
| कुलं यथा ॥१०॥ कोटरान्तः स्थितो वह्नि-स्तरुमेकंदहेत्खलु । कुपुत्रस्तु कुले जातः, स्वकुलं नाशय न्यहो ॥ ११ ॥
अजातमृतमूर्खाणां, वरमाद्यौ न चान्तिमः। सकृदुःखकरावाद्या-वन्तिमस्तु पदे पदे ॥१२॥ अजातमृतमूर्खेभ्यो-मृता जातौ सुतौ वरौ । यतस्तावल्पदुःखाय, यावज्जीवं जडोदहेत् ॥ १३ ॥ यस्य पुत्रो नवै विद्वा-नशूरो न च धार्मिकः । अप्रकाशं कुलं तस्य, नष्टचन्द्रेवशर्वरी ।। १४ ।। अविनीतः सुतो जातः, कथं न दहनात्मकः । विनीतस्तु सुतो जातः, कथं न पुरुषोत्तमः ॥ १५ ॥ दाने तपसि शौर्ये च, यस्य न प्रथितं मनः । विद्यायामर्थलाभे च, मातुरुच्चारएवसः ॥ १६ ॥ निरुत्साहनिरानन्दं, निर्वीर्यमरिनन्दनम् । मास्मसीमन्तिनी काचि-जनयेत्पुत्रमीदृशम् ॥ १७॥ वरंगर्भस्रावो वरमपि च नैवाभिगमन, वरंजातप्रेतो वरमपि च कन्यैव जनिता। वरं वन्ध्या भार्या, वरमपि च गर्भेषुवसति-नेचाविद्वाप-द्रविण गुणयुक्तोऽपि तनयः ॥ १८ ॥ पित्रों व वचः शृणोति दिवसत्यागेवजत्यालयं, यान्तीभिर्युवतीभिरध्वनिमुहुः कौतूहलं विन्दति । बन्धूनामुपदेशवाचि ददति क्रोधैकतानंवचः, साधूनिन्दति दुर्जनं च मनुते मित्रं कुपुत्रोजनः ॥ १९ ॥ एवं चिन्तातुरमानसः प्रतिदिवसं व्याधिग्रस्तशरीरो लक्ष्मीपतिर्विशेषतः क्षीणसत्त्वः स्वकीयमवसानसमयं विज्ञाय तस्मिन्समये धनपालं गृहेऽपश्यन्स्वभृत्यानगराभ्यन्तरेतमाह्वातुप्रैषीत् । स्वाम्याकविधायिनस्तेऽपि सर्वत्र भ्रमन्तः क्वाऽपि तच्छुद्धिमलभमानाः खिनास्ततोभूरिप्रयासेन भ्रममाणास्ते वारवनिताचेश्मनि क्रीडमानं धनपालं निरीक्ष्य विज्ञापयामासुः-बन्धो ! त्वदीय जनकोऽद्य सुरेन्द्रलोकं, गन्तुं समुद्यतमतिः कृतधर्मकृत्यः । सान्निध्यमिच्छति विशेषतयात्वदीयं, सत्स्वप्यनेकनिजबन्धुजनेषु वृद्धः ॥१॥ अतस्त्वां समानेतुंवयमागताः, विलम्बमाकुरु, तदा धनपालेन कथितम्-यूयं सर्वे सत्त्वरं व्रजत, भवतामनुपदमहमागच्छामि,
॥२६
For Private And Personlige Only