________________
ShriMahavir JanArchanaKendra
॥ अथद्वितीयःप्रस्तावः ।। देवेन्द्रासुरमानवेन्द्रनिवहैः संपूजितं मावतो-ध्यानारूढतया विशोध्य हृदयाम्भोज सदायोगिभिः । प्रत्यक्षीकृतमूर्तिमाशु विमलं शान्तिप्रदं तान्तिदं । श्रीमच्छान्तिजिनेश्वरं प्रशमिताशान्ति स्तुवे सर्वदा ॥१॥अथरत्नाकरश्रेष्ठिनस्तादृशं वचनं श्रुत्वा शीलवती विनयान्विता तं पप्रच्छ । कोऽयं मदनसेनो भूपः कीदृशश्चतेन साहसिक कार्य विहितम् ? तत्सर्व मामाचक्ष्व, ततोरत्नाकरोऽवादीत्-लक्ष्म्येकनिकेतनं लक्ष्मीपुराभिधं पत्तनं भुविविख्यातमस्ति, तत्र लक्ष्मीपतिनामामहेभ्यो निवसतिस्म, तस्य रूपगुणशाली मनोहरमूर्तिर्नानाविधविद्यानिपुणः सकलकलानिधानो धनपालाभिधेयः पुत्र आसीत् । तस्य च महादुगुणशीला धूतव्यसनपरायणा वेश्यासंगविधायिनो निन्द्यतमाचरणचणाः सुहृदोबभूवुः । सततं तेषामसत्सङ्गेन स धनपालोऽपि तादृग्गुणो निष्पन्नः, जनः साधुजनसमागमेन सदाचरणसक्तोभवति, दुर्जनसङ्गेन च दुराचारी निष्पद्यते । यतोक्तम्-अणुरप्यसतां सङ्गः, सद्गुणं हन्ति विस्तृतम् । गुणो रूपान्तरं याति, तक्रयोगाद्यथा पयः ॥१॥ संतप्तायसि संस्थितस्यपयसो नामाऽपि न ज्ञायते, मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते, स्वाती सागरशुक्तिसम्पुटगतं तन्मौक्तिकं जायते, प्रायेणाधममध्यमोत्तमगुणः संवासतोजायते ॥२॥ असत्सङ्गाद्गुणज्ञोऽपि, विषयासक्तमानसः। अकस्मात्प्रलयंयाति, गीतरक्तो यथा मृगः ॥३॥ पाहत्य रक्ष्यमाणापि, यत्नेनान्तर्विरागिणी । असन्मैत्री च वेश्याच, श्रीश्वकस्य कदास्थिरा ॥४॥ पात्रमपात्रीकुरुते, दहतिगुखं स्नेहमाशु नाशयति । अमले मलं नियच्छति, दीपज्वालेव खलमैत्री ॥५॥ दुर्जनजनसंसर्गात्सजन
For Private And Personlige Only