________________
ShriMahavir JanArchanaKendra
Achanach
agus Gyan
द्वितीय प्रस्तावः।
श्री अजितसेन शीलवतीचरितम् ।
॥२५॥
पुरुषोऽत्र दोषमायाति । रावणकृतापराधा-जलनिधिरपिबन्धनं प्राप्तः ॥६॥ दुर्वृत्तसंगतिरनर्थपरम्पराया-हेतुः सतांभवति किं वचनीयमत्र । लङ्केश्वरो हरति दाशरथेः कलत्रं, प्राप्नोति बन्धनमसौ किलसिन्धुराजः ॥७॥ हंसोऽध्वगः श्रममपोहयितुं दिनान्ते, करिण्डकाकवककोककुल प्रविष्टः । मृफोऽयमित्युपहसन्ति लुनन्तिपक्षा-बीचाश्रयोहि महतामपमानहेतुः॥८॥ नीचाश्रयोन कर्तव्यः, कर्त्तव्यो महदाश्रयः । पयोऽपिशौण्डकीहस्ते, वारुणीत्यभिधीयते ॥६॥ अहो ? दुर्जनसंसर्गा-न्मानहानिः पदेपदे, पावको लोहसङ्गेन, मुद्गरैरभिहन्यते ॥१०॥ अन्तर्मलिनसंसर्गा-च्छ्रुतवानपिदुष्यति । यच्चक्षुःसन्निकर्षण, कर्णोऽभूत्कुटिलाशयः ॥११॥ दुष्टता दुष्टसंसर्गा-ददुष्टमभिगच्छति । सुराबिन्दुनिपातेन, पश्चगव्यघटी यथा ॥१२॥ विद्वानुपालम्भमवाप्यदोपा-निवततेसौ परितप्यते च । ज्ञातस्तुदोषो ममसर्वथेति, पापोजनः पापतरं करोति ।।१३।। वरं शून्या शाला न च खलुवरो दुष्टवृषभोवरं वेश्यापत्नी नपुनरविनीता कुलवधूः । वरंवासोऽरण्ये न पुनरविवेकाधिपपुरे, वरंप्राणत्यागो न पुनरधमानामुपगमः ॥१४॥ वरं मौन कार्य न च वचनमुक्तं यदनृतं, वरंक्लैब्यपुसां न च परकलत्राभिगमनम् । वरंप्राणत्यागो न च पिशुनवाक्येष्वभिरुचि-चरं भिक्षाशित्वं न च परधनास्वादनसुखम् ।।१।। ततःकियताकालेन लक्ष्मीपतिवृद्धावस्थामनुभवन्नसन्मार्गानुयायिनं पुत्रं विलोक्य स्वसन्निधौत समाहूय विविधमुपदेशंदवा काश्चनहितवार्ताः कथयामास, तद्यथा-ज्ञानेनवयसा च ज्येष्ठानां पूज्यानां गुणिनाश्चकदाप्याज्ञानोल्लयितव्या, परस्त्री मातृवद्विलोकनीया, परधनश्चाश्मतुन्यज्ञातव्यम् , परवस्त्वपहरणं यूतश्चसर्वदाहेयम् , दुर्जेनसंसो नैवविधेयः, कपर्दिकामात्रोऽपिव्यवहारोदानादानतः शुद्धतरः पालनीयः, विश्वासपात्रेषु कार्यवाहकभृत्यादिषु सत्स्वपि सकल कार्यचिन्तां तदधीनां विधाय निवृत्तितया सबनि नशयितव्यम् , किन्तु सर्व कार्य स्वेनैवतत्रस्थित्वानिरीक्षणीयम् , तथैव
॥२५॥
For Private And Personlige Only