________________
प्रथमः प्रस्तावः।
अजितसेन शीलवतीचरितम्। ॥२४॥
रणेन मयेत्यभाणि, हे वायस ? नास्तिमेद्रव्यजिघृक्षा, तवभक्षणमपि न दास्यामि । एवं निगद्यसाशीलवती तुष्णींबभूव । तदारत्नाकरः श्रेष्ठी तस्याईदृशानि वचनानि श्रुत्वा हृदिसंजातहर्षी व्यचिन्तयत्-अहो ? विशेषविज्ञानशालिनीयं वधूः पवित्राविद्यते, निरवधिरस्या बुद्धिप्रभावोऽस्ति, तथापीयं सत्यं वदतिवाऽसत्यमिति तत्परीक्षामिदानीं करोमि । इतिनिश्चित्य तमिकटवर्तिनि कस्मिंश्चिद्वागत्वा कुशीखनित्रादिसाधनानि समादाय सचरं पुनस्तत्र समागत्य निक्षिप्तधन इव स महेभ्यस्ता भूमि निचखान, तत्क्षणात्तत्र यथादिष्टो धनराशिः प्रकटीबभूव । ततस्तस्मै वायसाय भक्ष्यं प्रदाय सुवर्णमणिमुक्कामय दशकोटीधनंरथे निक्षिप्य गुप्तसञ्चारः सश्रेष्ठी निजचेतसि विचिन्तयितुं लग्नः। इयं शीलवती वधूर्मद्गृहे साक्षात्कामदुधाऽस्ति, मुधापवादिनं मां धिगस्तु, तथैवाविमृश्यकारिणं मममनुमपिधिगस्तु । यतो मूढतया ससुतेनमया गृहादियं तिरस्कृत्यनिष्कासिता, तदतिनिन्यकर्म मयासमाचरितम् । अद्यप्रभृति यदुचितं तद्विचार्यैव बहुधाविधेयमन्यथा तदविमृष्यकारिमदनसेन नृपवत्परिणामेदुःखावहं जायते ।। इतिश्रीजगद्विभूषणशासनमहोदधिशीतरश्मिस्वपरसमयपारदर्शितपोगच्छदिवाकरभव्य जनतारकपातःस्मरणीययोगनिष्टाध्यात्मज्ञानविभाकरशास्त्रविशारदश्रीमद्बुद्धिसागरसूरीश्वरशिष्यरत्नश्रीमदअनितसागरसूरिविरचितेऽजितसेनशीलवतीचरिसे रत्नाकरमहेभ्यतत्पत्नीश्रीदेव्याअनपत्यत्वात्स्वेष्टदेवतोपासनाप्रसादजन्यपुत्रप्राप्तितदूढशीलवतीभार्याकृतविविधविद्याबलेन निशायां सरित्प्रवाहसमायातशबवसननिबद्धपञ्चदीव्यरत्नलब्धितदुपरिमिथ्याकलङ्कप्रदानमजितसेनकथितदुराचारिणीदृष्टान्त श्रवणानन्तरं तज्जनकविहितशीलवती
निर्यापणं पुनस्तद्विद्यानभावविज्ञानमित्यादिवर्णनाधिकारे प्रथमः प्रस्तावः समाप्तिमगमत् ॥ १॥
॥२४॥
For Private And Personale Only