________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
क्य गाढंनिःश्वसन्ती साऽवोचत्-पितृवर्य ? किमहं ब्रवीमि, मन्दभाग्यानामहं मूर्धन्यास्मि, यतोयस्यगुणंतनोमि, स एव मयि | दोषदृष्टिः सञ्जायते । मञ्जिष्ठा सुगन्धितपादपा अश्माकराः कार्यासस्त्वक्सार इक्षु मृत्तिकामौक्तिकानि प्रवालानि चन्दनं कौशे| यवसनं सुवर्णादिधातवो दक्षिणावर्त्तशङ्खो मधुमक्षिका उष्ट्रोऽश्वोहस्ती वृषभादयः सर्वे सर्वेषां सुखदायिनः सन्ति, तथापि हतदैवस्य कस्यचित्ररस्य दुःखदायिनो जायन्ते । अतो दैवगतिविचित्रा दश्यते । यतः-आहारे शुचिता ध्वनौ मधुरता वाचालतामाधवे,बन्धीनिर्ममता जनेषुनिरता नीडेपराधीनता । एतैरेवगुणैर्युताःपरभृतास्त्यक्त्वाकिमेतेजना, वन्दन्तेखलुखञ्जनंकृमिभुजं चित्रागतिःकर्मणाम् ॥१॥ कांश्चित्तुच्छयतिप्रपूरयतिवाकांश्चिन्नयत्युन्नति, कांश्चित्पातविधौकरोतिचपुनःकांश्चिनयत्याकुलान् । | अन्योऽन्यं प्रतिपक्षसंहतिमिमा लोकस्थितिं बोधय-प्रेषक्रीडति कूपयन्त्रघटिकान्यायप्रसक्तो विधिः॥२॥ रामे प्रव्रजनं बलेनियमनं पाण्डोःसुतानां वनं,वृष्णीनां निधनं नलस्य नृपते राज्यात्परिभ्रंशनम् ।कारागारनिषेवणंचमरणं सश्चिन्त्य लङ्गेश्वरे, सर्वोदैववशेन नश्यति नरः कोवापरित्रायते ॥३।। एवं कथयित्वा सा पुनःश्वशुरं प्रत्याह-हे तात! भवद्भिर्दृढाग्रहेण यदिपृच्छयतेतदायद्ब्रवीमितत्सावधानतयात्वया श्रूयताम्-निशिसुप्ताहं क्रोष्टुशद्वंनिशम्यसरितं प्रत्यगमम् , तत्र प्रबाहेणोह्यमानशववसनग्रन्थिमाच्छोट्य पञ्चरत्नानि समानयम् , तानि च रत्नानि मया निजशय्यायां गुप्तीकृतानि सन्ति, इत्यादिकं पूर्ववृत्तान्तं सर्व गृहनिर्गमनमारभ्यागमनावधि निवेद्य सा श्वशुरं सन्तोषयामास । तातो तेषां रत्नानां प्रभावेण मया गृहं परित्यक्तम् । अधुनाऽयंवायसः पितृगृहत्याजनस्योपायं निवेदयति-तद्यथा-अस्यकरीरस्याऽधोभागेनिधानीकृतानां दशकोटयोनिष्काणां सन्ति, तद्हणेच्छा यस्य भवेत्तेनदेहिनासुखेन तद्धनं गृह्यताम् , परन्त्वहमतिबुभुक्षितोऽस्मि, ततोऽहं भक्ष्यप्रदानेन तर्पयितव्यः। इत्थं वायसोक्ति निशम्य पूर्वदुःखस्म
For Private And Personlige Only