________________
ShriMahiavir JanArachanaKendra
Acharya:shaKailassagarsunGyanmandir
यपश्चात्तापपरायणा जज्ञे । हहा ! मयाऽपकृत्यं विहितम् , प्राणप्रियं भर्तारमनापृच्छय यत्सरितं प्रतिगताऽहम् , पुनरागत्यापि तस्मतवृत्तान्तं मया न निवेदितम्, इदानीं किंकरोमि ? वगच्छामीति विकल्पयन्ती भयभीतचेताः सा समजनि । दुःखोदधिनिमनासा विचिन्तयितुं लमा, इदानी मे विचारकल्पनापि निरर्थकैव, यतः पश्चाद्भाविनी याबुद्धिः सा यदि प्राक्समुत्पद्येत तर्हि कार्यहानिर्नस्यात्, लोकेषु च हास्यमाप नभवेत् । परन्त्विदानीमस्मिन्कार्येसङ्कल्पविकम्पकरणनसृतम् , कुमित्रवचनमिवैतनिष्फलमस्ति-यत:-परोचेकार्यहन्तारं, प्रत्यक्षे प्रियवादिनम् । वर्जयेत्तादृशामित्रं विषकुम्भपयोमुखम् ॥ १ ॥ मधुरिम रुचिरं वचः खलाना-ममृतमहोप्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतु मन्त-गतमिव, हालहलं विषं तदेव ॥२॥ अस्तुनामैषलोकापवादः, सत्यमेव सर्वत्र विजयते, सत्यवादिनां न कुत्रापि दुषणं सम्भवति । यदिमदीयंशीलं निर्मलमस्ति तदा न काऽपिक्षतिः । इत्थं ध्यायन्ती सा शुभशकुनं यावत्प्रेक्षते तावदेव दैवप्रेरितानीव प्रशस्यतराणि शकुनानि सज्जतानि,-आपदाधिनिमनानां, शकुनानि शुभानिवै। आलम्बनं समादिष्टं, यथा सज्जनसंगमः ।। १॥ अथ रत्नाकरः श्रेष्ठी रथं सजंकारयित्वा शीलवतीं तत्र सन्निवेश्य स्वयश्च सारथीभूय नगरादहिनिश्चक्राम । तस्मिन्समये दुर्गापक्षिणी स्वस्थानादुड्डीय गृहीतमुखभक्षणा किश्चिदूरं गत्वा पुनस्तत्रसमागत्यस्वभाषया किश्चित्प्रोवाच, निजपतिप्राणसमानाया दुर्गाया वाचनिशम्य निपुणमतिः शीलवती तद्वाक्यार्थ विचारयति-अनेन वचनेन मे भूरिलाभो भविष्यति, अर्धवर्मनिगत्वा पश्चादहमत्राऽऽगमिष्यामि, बहुमान पूर्वकञ्चमेगृहप्रवेशः पुनर्भविष्यति, । ततोऽन्यान्यपि शकुनानि महाफलप्रदानि समभवन् । परन्तु सा स्वचेतसि महापीडामनुभवन्ती भृशं चिन्तातुरा जज्ञे । यतः
For Private And Personlige Only