________________
ShriMahavir JanArchanaKendra
Achanach
sagan Gyaan
प्रथमः प्रस्तावः।
भजितसेन शीलक्तीचरितम् ।
॥२१॥
व्यन्तरादीनां साहाय्येन क्षणात्परतटमियाय । नृपतिरपि कौतुकजिज्ञासया प्रचण्डविक्रमोनिजसत्त्वबलेन नदीजलंतीर्चातयाऽलक्ष्यमाणस्तत्रगत्वा रहसि स्थितः । स्वच्छन्दचारिणी सा स्वच्छजलपूर्णायास्तस्यास्तटिन्यानिर्जने तटे निजसङ्केतितेन स्वाधीनीभूतेन महाऽवधूतवेषधारिणैकेन पुरुषेण साकंयथेच्छ विषयसुखंबुभुजे । तत्कृतमेतत्सर्वकार्यसाचाद्विलोक्यविस्मितो नृपतिः पुनः सरितं ती स्वस्थानमाजगाम । विप्रभार्याऽपि निजं कृतार्थं मन्यमाना स्वकीयं गृहमियाय । प्रभाते भूपतिः समुत्थाय प्रसाधितप्राभातिककार्यः सिंहासनमारुह्य निजैतैस्तांदुष्टां समानाय्य रात्रिकृतं तदीयं चरित्रं सर्वजनसमचं संश्राव्य शिक्षा प्रदानपूर्वकं नगरादहिनिष्कासयामास । तस्माद्-हे जनक ? स्त्रीचरित्राणां सीमा नविद्यते,-यतः-अन्येन सह जल्पन्ति, कुलटायोषितोऽपरम् । ध्यायन्ति चेतसा चान्यं, कुर्वन्ति नेत्रगोचरम् ॥ १॥ परस्य मारणोपायान् , रचयन्ति मदोत्कटाः । रिरंसया वशीकुर्व-न्त्यपरान्प्रेमश्मिभिः ॥२॥ अतः कुलीनैः कुलटानां सङ्गतिः सर्वथा दूरतः परिहर्त्तव्या । इत्थमजित सेनकुमारो दुराचारिण्याः कथां निवेद्य शीलवत्याः सर्ववृत्तान्तं पितुरने कथयित्वा स्वस्योद्विग्नताया हेतुः सेवेति ज्ञापयित्वा विरराम । पुत्रोक्तं वृत्तान्तं समाकर्य रत्नाकरः श्रेष्ठ्यपि मनुवभृशं चिन्तातुरोजनि । ततस्ताभ्यामेवं मन्त्रितं, यदेवं दुर्गन्ध समानोलोकाऽपवादो यावद्भहिर्नप्रसरति तावतां शीलवतीं तत्पितुहं संप्रेष्य सर्वमिदं कार्य साधनीयम् । एवं निश्चित्य शीलवती निजान्तिके समाहृय रत्नाकरो मायामयं वचनं प्रोवाच-स्नुषे ? तवपितुः पत्रं त्वदाह्वानकृते समायातम्, तत्र चावश्यक कार्य किमपि विनिर्दिष्टमस्ति, अतः सत्त्वरं तत्रत्वयागन्तव्यं, वसनादिकं गृहीत्वाद्रुतं सजीभव, विलम्बं माकुरु । इति श्वशुरवचनं निशम्य सा व्यग्रतामापना निजचेतसि विचिन्तयति, तावनिजविद्याबलेन स्वमर्चेश्वशुरयोश्चिकीर्पितं सर्व विज्ञा
॥२१
For Private And Personlige Only