________________
स्तदृत्तान्तमचीकथन-धनधान्यादिमहद्धिसंजुष्टं चन्द्रपुराभिषं नगरं समस्ति, तत्र चन्द्रसेननामा नृपतिः प्रजाः पालयन्राज्यं करोति, न्यायकर्मकर्मठः स चैकदागुप्तवेषेण नगरचर्याविलोकमानोमध्याह्नसमये कस्यचिद्विप्रस्यगृहाङ्गणेस्थितस्तदानीं तद्गृहाधिपतिवद्धविप्रो वायसानंगृहीत्वा गृहादहिर्निश्चक्राम, ततोजलेनभूमि संशोध्य तत्र वायसवलिं निक्षिपतस्तस्य वाइवस्यहस्तसञ्चालनं निरीक्ष्य महतास्वरेण शब्दान्प्रकुर्वन्तोऽने के वायसाः संमिलिताः, तेषां कटुवनितं निशम्य तस्य विप्रस्य | भार्या भीतमानसेव कराभ्यां निजवक्षस्थलं ताडयन्ती भयप्रदमाक्रोशं चकार । निजभार्याया भयजनकामाराटीं श्रुत्वा विनोऽवदत्-प्रिये ? कुतस्त्वविभेषि ? तत्पत्नी प्रोवाच-स्वामिन्नेतादृशं क्रूर, वायसानां ध्वनि कथम् । पतिव्रताः स्त्रियः श्रोतुं,
जायन्ते मद्विधाः क्षमाः ॥ १॥ द्विजेनाऽवादि पतिव्रतपरायणे-स्वादृशीनां सतीनां वै, मर्यादा शोभनेदृशी । स्वभाव * सिद्धमेतद्धि, वर्त्तनंकुलयोषिताम् ॥ १॥ एवं तयोर्दम्पत्योर्वार्तालापंशृण्वन्भूपतिः स्त्रीचरित्रं विचित्रं मन्यमानः स्वचेतसिव्यचिन्तयत्-नूनमियंस्त्रीव्यभिचारिणीदृश्यते, मृषावादिन्यसौ नारी स्वपातिव्रत्यदर्शयितुं सरलस्वभावंनिजपति वश्चयति,
यतोऽहं काकशद्वादपिविभेमीति । तस्मादस्याः परीक्षा मयाकर्त्तव्या । एवंनिश्चित्यभूपतिर्निजस्थानं जगाम । ततस्तस्यामेव * रात्रौ पुनर्वेषान्तरं धृत्वा तस्याः स्त्रिया गृहान्तिकेदश्यतया स तस्थिवान् । तावनिशीथसमये जाते निजपति निद्रितं विज्ञाय सादुराचारिणी निजसख्यैकयावश्यया बलिकुल्माषादिसंभृतामेकांमञ्जूषामुत्पाय्य नगरपरिसरे सरिदन्तिकं जगाम, भूपतिरपितदीयचेष्टां विज्ञातुकामो गुप्ताकारतया तामनुययौ । अथ साद्विजपत्नी स्मशानतटवासिनः सर्वान्भूतप्रेतपिशाचाबलिप्रदानेन तोषयित्वा दर्शनमात्रेण भयदायिन्यां प्रभूतजलपूर्णायां महावेगेनवहमानायां तस्यामापगायर्या निपत्य तेषां
For Private And Personale Only