________________
Shri Mahavir Jain Aradhana Kendra
श्री अजितसेन
शीलवती
चरितम् ।
॥ २० ॥
1-3-4401
*****@*********→→
www.kobatirth.org
ममप्राणानपि कदाचिद्विहिंस्यात् ? असौरमा मत्प्राणतोऽप्यधिकतरावल्लभामेऽभवत्, यां महताडम्बरेणाहंपर्यणयं सा ममैववैरिखी समजनि, सुशीला भार्या स्वाम्यर्थं स्वजीवितमपि त्यजति, दुःशीलातुनि जपति हिनस्ति मित्रमपि शत्रुमिव पश्यति, वैरिणश्च मित्रबुद्ध्या पूजयति । ईदृक्स्वभावा स्त्रीजातिर्विद्यते, तथैव सादुर्नयस्यपात्रं साहसकार्याणां नगरं विविधदोषाणां खानिः कपटजालस्य वसतिधापवादानां करयडको निगद्यते यस्याहृदये हालाहलं तिष्ठति, जिह्वायाञ्च मधु तिष्ठति । तस्मादियं कुलटा न विश्वसनीया - उक्तञ्चान्यत्र - शास्त्रं सुनिश्वितधिया परिचिन्तनीय - माराधितोऽपि नृपतिः परिशङ्कनीयः । आत्मीकृताऽपियुवतिः परिरक्षणीया, शास्त्रे नृपेच युवतौ च कुतः स्थिरत्वम् ।। १ ।। कुलमर्यादामुल्लङ्घयन्त्या ज्यानिष्कलङ्क मस्मदीय' कुल सकलङ्क विहितम् । इयंवनिता महानर्थानां मन्दिरमस्ति, सर्वेषामाश्चर्यजनकमस्याः कुलटावाश्चरित्रं किं वएर्यते ? कल्पद्रुमिव वाञ्छितार्थप्रदंमांविहायसाऽन्यस्मि आरपुरुषे बद्धरागा सञ्जाता, तस्मात्तांधिगस्तु अधिकं किं ब्रवीमि ? यतः -
विद्याबुद्धिपराक्रमप्रियवचोदानचमानम्रता - संपद्भोगभयेन सत्यकरुणासच्चादिभिः सद्गुणैः । यो नाकुलटां सुधीर्वशयितुं वाञ्छत्यसौस्नेहतः, पाथोधि तरितुंशिलाप्लवगतः सद्यः समुज्जृम्भते ॥ १ ॥ दुराचारिणी भार्याकस्मिन्नपि काले केनाऽप्युपायेन वशवर्त्तिनी नभवति, इत्थं स्वमनसि विचिन्त्योद्विग्नमानसोऽजितसेनः शीलवतीमत्याचीत् । प्रभातेच तदेकध्यानपरायणो विच्छायवदनः स कुमारः पितुः सन्निधावुपविष्टस्तदा तञ्जनकेन तदौदासीन्यकारणं पृष्टम् - ततो विनयावनम्रः सोऽभाषीत् - हे पितः १ भवदग्रे किं कथयामि ? मदीयभार्या दुराचारिणीसमाना दृश्यते, ततो रत्नाकरोऽवादीत्-केयं दुराचारिणी ? तस्याः कीदृशान्याचरणानि ? तत्सर्वं कथय, अथाजितसेन
For Private And Personal Use Only
*• →→3⁄4¢*<< •_••* ̈*•»**••*•****@*****→*
Acharya Shri Kasagarsun Gyanmandir
प्रथमः
प्रस्तावः
॥ २० ॥