________________
Achanasha
G
यत्-यदिदं मृतकं क्रोष्टे दवा रत्नानि मया गृहीतव्यानि, यतः शृगालभाषितमिदं कालत्रयेऽपि वृथा नैव भवेत् । इदं वृत्तान्तं यदीदानीं भर्तारं विवोध्यतदने कथयामि तथापि स मदचनं सत्यं नमस्यते, यदीदकार्य न करोमि तर्हि शिक्षिताया मे विद्यायाः किं फलम् ? द्रव्यस्य नास्ति मे प्रयोजनं, प्राणप्रियं परित्यज्य क्षणमपीतो गन्तुं मे क्रमौनक्रमतः, परं विद्यायाः परीक्षार्थ प्रतीत्यर्थञ्चेदं कार्य मया विधातव्यमन्यथा चमत्कारकरी मे विद्यां लोकाः कथं जानीयुः ? इतिनिश्चयन्ती सा निजशय्यातः समुत्थाय मनोहरमेकं घट हस्ते समादाय जलानयननिमित्तेन सरितं प्रतिचचाल, तत्रगत्वा साविलोकयतितावतत्तटिन्यास्तटसमीपगंशबंनिरीक्ष्य सद्यस्तत्रगत्वाशवकक्षानिबद्धवसनग्रन्थिछोटरिवारत्नपश्चकंगृहीत्वातच्छवश्चबहिनिष्कास्य तरम क्षुधादितायशृगालायप्रादात् । शृगालोऽपि तेनमृतकेन तृप्तिमियाय । ततःशीलवती स्नानंविधाय जलभृतं कुम्भशिरसि निधाय निजसपनि समागता, रत्नग्रन्थिश्च निजशय्यायां गुप्तीकृत्यस्वचेतसिसाव्यचिन्तयत्-प्रभातेऽहं सर्ववृत्तान्तमिदंस्वामिनोऽग्रे निवेद्य रत्नानि दर्शयिष्ये, यतोमाढनिद्रितोऽयं प्राणवल्लभो नैवेदानी विवोधनीयः । अहो ? अस्याः कामिन्याः कीदृशं गाम्भीर्यम् ? ईदृशंदुर्घटंकार्य विधाय यन्मनसि निरुत्सेकता स्थिरतामवाप, क्षुद्रहृदयानां प्रमदानांचेतसिक्षणमपिवा विश्रामो न भवति, सद्विद्याप्राप्तेः सारस्तु स एवाऽस्ति, यत्प्रभावेण कदापि गर्वाविर्भावो न स्यात् , विद्यावतांप्रवृत्तिः सदैवश्लाघनीया वर्त्तते । इतः शीलवतीगमनानन्तरं किमपिशारीरिक कार्यमुद्दिश्य जागरितोऽजितसेनो निजभार्यामनवलोक्य स्वचेतसि विचाराभ्ररचनामकार्षीत्-अहो ? अधमेयं स्त्री नूनं स्वच्छन्दचारिणी दुराचाररता वर्तते, पापकर्मानुकारिण्यसौ वामनयना मया | नैव रक्षणीया, तस्या मुखावलोकनमपि महापापस्य निदानमस्ति, अस्या दुष्कृत्यानि मपाऽद्यैव विज्ञातानि, दुष्टहृदयेयंभामिनी
For Private And Personale Only