________________
ShriMahavir JanArchanaKendra
Achana changanya
प्रथमः
प्रस्तावः।
अजितसेन शीलवतीचरितम् ।
स्वस्थान विससर्ज। ततः शीलवत्यासमं सकुमारोऽभ्रंलिहे ध्वजपताकाभिमण्डितेऽतिमनोहरे प्रासादे जलधिफेनसंहतिसनिभायां सुधोज्ज्वलाच्छादनपटाच्छादितायां परितोविकीर्णमल्लिकाकुसुमप्रकरायां वसनगुच्छादिभिर्विविघयैः समलङ्कृतायां चन्दनमृगमदकेसरजलैः सिञ्चितायां शय्यायां शयानः काममन्त्रमाराधयामास । यस्याः समीपे चुवाचन्दनाऽगसुगन्धितन्तवः संस्थापिताः सन्ति । क्रमुकलविङ्गैलाताम्बूलजातिपत्रजातिफलतमाल पत्रादिमुखवासपदार्थाश्चम्पकपुष्पप्रभृतिसुरभिकुसुमानि च तत्र सुवासंतन्वन्ति, महारत्नखचितसुवर्णकलशा जलसंभृतास्तिष्ठन्ति, कर्पूरमिश्रितकुसुममालाभिः समलङ्कृतानि द्वाराणि विराजन्ते, यत्रनिबद्धवानि मनोहराणि व्यजनानि सुरभिवातं विकिरन्ति, सूर्यप्रभानुकारिणोदीप्रदीपाः प्रज्वलन्ति, तुलितसुवर्णकान्तिनिचये रङ्गमण्डपे परितश्चित्रकारैश्चित्रितानि कायफलकानि विराजन्ते, तत्रसर्वत्र महायरत्नकम्बलपटाः समाच्छादितास्तत्रशयनोपवेशनार्थमनेकविधान्युपकरणानि सन्ति । प्रासादादहि गे नर्तका नृत्यन्ति, वारयोषितश्च गायन्ति, इत्थं सर्वसाधनानामानुकूल्येन सर्वदा संसारसुखमनुभवतोस्तयोदिवसाः सुखेन व्यतीयुः । अथाऽन्येचुरुडुगणविराजितपूर्ण | निशाकरकलितायां निशायां निद्रायमाणं निजपतिं निषेवमाणा साशीलवती सहसोत्पन्नमेकंशृगालशद्वमशृणोत् , श्रुत्वा च पशुपक्षिणां भाषायां लब्धनैपुण्यासा स्वचेतसि विचारयामास-भृगालोऽयमेवंचूते-अस्यामापगायां निर्मलवारिप्रवाहेणोद्यमानं देववशादेकंमृतकं समायाति, तत्कटिनिबद्धवस्वाञ्चलेकोटीमून्यानि पञ्चमहारत्नानि निबद्धानि सन्ति, तच्चशबं जानुदघ्नजलस्थितं नद्यास्तटसन्निधौ वर्त्तते, अतोयस्य रत्नग्रहणेच्छास्यात्तेनदेहिना तच्छबंबहिनिष्कास्य रत्नानिस्वयंगृहीत्वा तन्मृतकं बुभुक्षिताय मह्यं प्रदीयताम् । इत्थं क्रोष्टुशब्दं मुहुः शृण्वन्ती पवित्र पतिसेवाधर्मकसक्ता साशीलवती निजमानसे व्यचिन्त
॥१९॥
For Private And Personlige Only