SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra **+++++++**++*०* www.batirth.org रिपालनीयेत्यभिधाय प्रयाणसमयज्ञौ तौ दम्पती निजामङ्गजां शिक्षयामासतुः । वत्से १ शीलवतीनां चमैवविभूषणमतः सर्वदाक्षमात्वयाधारयितव्या, यतः - क्षमाधनुः करेयस्य, दुर्जनः किं करिष्यति । अतृणे पतितो वह्निः स्वयमेवप्रशाम्यति ॥ १ ॥ नरस्याभरणंरूपं, रूपस्याभरणंगुणः । गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा || २ || क्षमा बलमशक्तानां शक्तानां भूषणं बलम् | क्षमा वशीकृतिलोंके, चमया किं न सिद्ध्यति १ ॥ ३ ॥ कदाचिदपि क्रोधवर्त्मनि त्वया न वर्त्तितव्यम् । परदूषणानि न निरीचितव्यानि परापवादविचारश्च निजात्मनि नैवविधातव्यः, सर्वदा स्वपतिर्देववत्पूजनीयो माननीयथ, भर्त्तुराज्ञानुसारेणसर्वथा वर्त्तितव्यम्, पूज्यतमानांश्वश्रूश्वशुरज्येष्ठादीनां मर्यादा कदापि नोल्लङ्घनीया, तेषां विनयः सदाचारेण सम्पादनीयः, प्रमादतमश्च सावधानतया सदा परिहर्त्तव्यम्, स्वकुलमर्यादाभङ्गोनविधातव्यः, भर्तुः प्राक् शयनादुत्थातव्यम्, निद्रामसेवमानात्तस्मात्प्राग् नशयितव्यम्, सपत्नीवर्गोभगिनी समोमाननीयः, तदुक्तं वचनं प्रेम्णा स्वीकर्त्तव्यम्, मिध्यात्वमूलोद्वेषभावो नचिन्तनीयः, भर्तृपरिवारजनेषु भुज्यमानेषु पश्चाद्भोक्तव्यम्, स्वाश्रितानां दासदासीनां पश्वादिगणानाश्च समवलोकनं विधातव्यम्, श्रीमजिन परस्य गुरुजनस्य च प्रत्यहं पूजाभक्तिर्विशेषतो भावपूर्वकं विधेया, पतिव्रतात्रतं यथाविधि पालयितव्यम्, किमधिकशिक्षाप्रदानेन ? स्वयमेवत्वं सकलगुणवेदिनीवर्त्तसे, सुते ? श्वशुरं श्वश्रूश्व मातापितृवद्गणयित्वोभयकुलशोभा विवर्द्धनीया, तथैवत्वयावर्त्तितव्यं यथा सर्वेजनाः सन्तुष्टा भवेयुः । इत्थं सभार्येयजिनदत्तेन निजसुतां शिक्षयित्वाऽनेकविध - मुक्तामण्यादिवस्तूनिवितीर्यशुभे मुहूर्ते प्रयाखाज्ञा प्रदत्ता । ततोऽजितसेनकुमारः स्वप्रियपत्नीसमादाय कविभिर्दिवसैर्निजनगरमभीयाय, महाडम्बरेण रत्नाकरेण पौरैर्नगरप्रवेशोत्सवः कारितः । सर्वान्स्त्रजनप्रन्धुवर्गान्यथोचित सन्मानपूर्वकं सत्कृत्य For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 8018032089/**++++
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy