________________
ShriMahanandain AradhanaKendra
Acharya:shaKailassagarsunGyanmandir
जालनादितदिग्विभागाः सौवर्णरथाः संभृतवस्तुचयाः शकटश्रेणयः शिविकाः सुखासिकाश्चापरिमिता अध्वनिविशालेऽपि ससंकुलं बजन्तिस्म, वायुनोधूयमाना रथस्थितध्वजपटा जनानां मार्गश्रमजनितस्वेदलवानिवर्त्तयन्तिस्म,अनेकविधवाद्यानिनिनदन्तिस्म, वरगुणान् कीर्तयन्तः कवयो विचित्रां काव्यरचनां वितन्वन्तिस्म, गाथकाः समयोचितं गायन्तिस्म, वारवनिता नृत्यं व्यधुः । एवं ब्रजन् स्वजनपरिवृतः कतिभिर्दिवसैरानन्दिताऽन्तःकरणोवरयात्रिकैरनुगम्यमानोऽजितसेनः सदा सन्मङ्गलैर्विराजमानां कृतमङ्गलानगरीमवाप्य तद्वहिरुद्याने निवासमकरोत् । ततो ज्ञाततदागमनवृत्तान्तो जिनदत्तश्रेष्ठी लन्धसर्वस्वइव महताडम्बरेण पुरप्रवेशं कारयित्वा प्रथमत एव सजीकृते योग्यावासे वरपक्षीयान्सञ्जिनानिवासयामास । ततो लग्नवासरेऽपरातसमये कौसुम्भरञ्जितमहाय॑वसनैर्विभूषिताङ्गो मौक्तिकहारेण विराजितकण्ठकन्दलो मणिमयकुण्डलकान्त्या संदीप्तगण्डस्थलः शिरसिविधृतरलमुकुटः केयूराभ्यां विराजितभुजदण्डो रत्नवलयाभ्यां विभूषितकरकमला किङ्किणीवातेन वाचालया रत्नकाञ्च्या समालिङ्गितकटितटो महारत्नाङ्गुलीयकैः सुशोभिताङ्गुलिगणो नानापरिमलसुवासितैनिजाङ्गः सुरभीकृतदिक्चक्रोमूनिधृतधवलातपत्रोऽन्धिकफायमानाभ्यां चामराभ्यांवीज्यमानःसमानवयोभिव्यविचित्रालङ्कारमण्डितगात्रैः सुहृन्मण्डलैरनुगम्यमानः प्रवरतुरङ्गममारूढोजितसेनकुमारो मेघगम्भीरदुन्दुभिमृदङ्गभेरीप्रमुखबादित्रगर्णबधिरीकृतदिमण्डलो नगरप्रतोलिकामाससाद, तस्मिन्नवसरेऽनेकेध्वजपताकानिःस्वानधारिणः श्रेणिभिर्विराजमानास्तदने चलन्तिस्म, स्कन्धस्थितसुवर्णयष्टयोविरुदावलीमुच्चारयन्तोवरघोटकदिदृक्षयासमागच्छतोव्यग्राञ्जनानपवारयन्तोऽनु| चरा विचेरुः । तत्क्षणमागता युववर्गास्तद्विलोकनकदत्तचक्षुषश्चिरंजीव चिरंजीवेतिमधुरशब्दैरन्तरिक्षं पूरयन्तिस्म, धृत
For Private And Personlige Only