SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री अजितसेन शीलवतीचरितम् । ।। १५ ।। - 1+01+9+8+43 www.khatirth.org नशेखरं निजसद्मनिसद्यः समानाय्य सत्कारं च विधाय शुभे वासरे विवाहसम्बन्धोविहितः । ततो लग्नसमयं निर्णेतुं समभ्यस्तविद्याञ्ज्योतिषिकानाहून सुमुहूर्तलग्नं निश्चिकाय । गणकानपि सत्कृत्य विससर्ज । ततः प्रमोदपूरितान्तः करणो जिनशेखरोनि जनगरं प्रययौ । अथोभयत्र विवाहोचितकार्याणि बभ्रुवुः । आदौ विघ्नविघाताय श्रीमानजितसेनकुमारो मङ्गलप्रदां श्रीजिनेन्द्रमूर्तिपूजयामास । ततः सुरूपायां शीलवत्यां निममचेतसस्तस्यदचि ण करो मङ्गलसूचकेन मदनफलसमन्वितकौतुकसूत्रेण वि भूषितोऽभूत् । उभयस्मिन्स्थाने कुशलैर्भृत्यैर्विरचितान्विवाहमण्डपान्सर्वभूषणभूषिताः स्वस्वसम्बन्धिनः सप्रमोदा विभूषया - मासुः । तेषु मण्डपेषु च विविधगीतकलासु कोविदा गायकाः प्रगायन्तिस्म । मृदङ्गवीखादुन्दुभिप्रमुखवाद्यानां ध्वनयः प्रादुरभूवन् । मधुरवाग्विलासा वारविलासिन्यो नृत्यन्तिस्म । सर्वस्मिन्नगरे प्रतिगृहं कनककलशाः कौशेयध्वजपताकाश्च प्रकाशन्तेस्म, कविगणा यशोराशिं वर्णयन्तिस्म, नवीनदुर्वाङ्कुरायां तोरणानि प्रतिद्वारमलञ्चक्रुः । गुलालपुञ्जेनात्रिरचयेनच नभस्तलं व्यासमासीत्, विचित्ररङ्गैः स्वस्तिकानां विविधरचना विनिर्मिताः सन्ति, घुसृणकर्पूरमृगमद सुगन्धिततैलचन्दनादिविलेपनद्रव्यैविलिप्ताङ्गावयवाः सुमनोहरैर्विचित्रवर्णैर्वखाभरणैरनेकविधमौक्तिकजात्यरत्नाऽलङ्कारैश्च कृतशृङ्गाराः पौरजना विराजन्तेस्म । मनोहरवेषधारिण्यः सधवा योषितो मधुरस्वरैर्घवलमङ्गलानि गायन्तिस्म, स्वादिष्ठाऽभीष्टमिष्टान्न भोज्यादिभिः सकलजनाः प्रसन्नमनसोजज्ञिरे । एवमुभयस्मिन्नगरे विवाहमहोत्सवोऽवर्त्तत । अथ नन्दनपुरादजितसेनपुरःसरा वरयात्रिकाः प्रयाणं चक्रुः शृङ्गारितास्तदीयाः कुञ्जरत्राता अञ्जनगिरिभ्रमं वितन्वन्तिस्म, तरसानभोङ्गणमा क्रमितुमभीप्स वइवस मुत्पतन्तस्तुरङ्गमाः सादिभिर्बलादाकृष्टवन्गा नियमिताश्चेलुः । शस्त्रास्त्रत्रातैर्विराजमानाः पदातिगणाः सोत्साहं व्रजन्तिस्म, किङ्किणी For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir 1001+08/0/+G प्रथमः प्रस्तावः । ।। १५ ।।
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy