________________
Shri Mahavir Jain Aradhana Kendra
93
www.kobatirth.org
शकुनानि भवन्ति तेषां यथादेशकालभाविशान्त्युद्दीप्तिसमुद्वेगादिजनकं यत्फलं तत्प्रकारताशालिज्ञानमागन्तुकज्ञानमित्यादिशाकुनिक विज्ञानपरिपूर्णाऽसौवर्त्तते, किंबहुनोक्तेन, निःसीमगुणभूमिस्त्रैलोक्यजनमाननीया प्रियवादिन्येषा मदङ्गजा प्राप्तविवाहकाला जाताऽस्ति । तस्मादन्वहं तस्या विवाहचिन्ता मे हृदयस्थलं न जहाति, एवं जिनदत्तोक्तिमाकर्ण्य मयेत्यवादि हे बुद्धिनिधान ? मैत्रं चिन्तां कुरु, येनेदृशी रूपगुणशालिनी कन्या विनिर्मिता तेनैव विधिना तस्या योग्योचरोऽपि समुत्पादितोऽभविष्यत् । यदुक्तम् - जानाति मुग्धस्त्वहमेवचित्त-मुपार्जयाम्यन्यजनाश्च सर्वम् | खादन्ति काष्ठे स्थित मङ्गिजातं, शुष्के जलं पाययतीतरः कः ॥ १ ॥ यथा शिशोर्गर्भगतस्य चिन्तां कुर्वन्यित्राता प्रथमं जनन्याः । दुग्धप्रवाहं स्तनयोविंधत्ते, तथाऽन्ययोगा अपि भावनीयाः || २ || भाग्यानुयोगेन जना लभन्ते, उच्चावचांसङ्गतिमुत्कटाशाः । दैवप्रभावाद्विभवो हि लोके, विपत्तिरप्याशु दुरन्तदुःखा || ३ || अतोहेश्रेष्ठिन् ? सावधान मनसा त्वया सुधासोदरा मदुक्तिः श्रूयताम्नन्दनपुराभिधे पत्तने रत्नाकरनामा महेभ्योऽस्ति, रूपेण निर्जितमन्मथः स्वकीयजिया तर्जितभास्करप्रभः सकलश्लाघ्यगुणगण्णवसतिः साचात्कामकुमारइया ऽमेय दीप्तिरजितसेनाभिधस्तस्य सूनुरस्ति । सएव रोहिणीं शशभृदिव तवपुत्रीं वरीतुं योग्योऽस्ति । इति मदुक्तं वचनंनिशम्य प्रमुदितमानसः सोऽब्रवीत् श्रहो १ रत्नाकरश्रेष्ठिनः सम्बन्धः सर्वथा सर्वेषां माननीयः केषामप्रियः स्यात् । भवदुक्तं वचनं तथैवाऽस्तु, शुभेऽस्मिन् श्लाध्यकर्मणि कोविलम्बं कुर्यादिति गदित्वातेन स्वकीयं पुत्रं जिनशेखराख्यं मयासार्द्धं तत्कालमेवप्रेषितोऽस्ति । सोऽधुना मदेहे तिष्ठति, यदि युष्माकमाज्ञाचे चमत्रानयामि । कर्णयोः पीयूषोपमं तदीयं वाक्यं निशम्यरत्नाकरस्तं कथयामास - सुहृदात्मज १ स्वयाऽतिसुन्दरं कार्य विहितमस्तीत्यसक तत्प्रशंसां कुर्वजि
For Private And Personal Use Only
+++******+++++
Acharya Shri Kassagarsun Gyanmandr