________________
AcharpenkaiamagranGamana
जा
प्रथमः प्रस्तावः।
श्री विर्धा हृदयप्रियां तां कन्यां विलोक्य जिनदत्तवणिजमहमपृच्छम्-कस्येयमात्मजा ? तेन भणितम्-निर्जितकामरूपेयं मदी. "अजितसेन याङ्गजा वर्त्तते । अस्या विवाहार्थं महती चिन्ता मे जायते, केवलं वरस्यैव योग्यतया कन्याविवाहो न विधीयते, प्रथमं रूपशीलवती
गुणधामवरोविलोकनीयः, ततः प्रेमचिन्तनं, तच्छ्वशुरपक्षीयकुलबलाऽभियोगः, स्वजनसज्जनता, सपत्नीशन्यं, शीलपालनचरितम् ।।
स्वामिजन्यशर्मसन्ततिप्रभृति सर्व विलोक्यते । यतः-कन्या वरयते रूपं, माता वित्तं पिता श्रुतम् । बान्धवाः कुलमिच्छन्ति,
मिष्टान्नामितरे जनाः॥१॥ अतः कन्याजनकस्तत्सर्व पर्यवेक्ष्य सर्वजनसंमतं निर्वाधमेव विवाहकार्य प्रकुर्वीत, अन्यथा लोक॥१४ ।
* विगर्हणीयः स्यात्तस्मात्कन्यायाः पिता सदा दुःखकान्तारे पतितो ज्ञातव्यः । उक्तश्च-गमनं न वरं कोशं, सुतैकाऽपि न संमता । ऋणं बरं न पितृणां, यदि देवकृपा भवेत् ॥ १॥ वणिसुत ? समग्रगुणमण्डिता विशेषतोऽवर्ण्यरूपसम्भारा शशिमुखी शीलवतीत्यभिधानं सार्थकं व्यञ्जयन्ती परिणामेऽपि तथैवभाविनीयकन्यासौभाग्यैकखानिश्चतुःषष्टिकलासु निपुणा, संप्राप्तशकुनस्वरोदय विज्ञाना, काकोलूकमयूरदुगातित्तिरीदेववर्तिकाक्रोष्ट्वादिपशुपक्षिणांभाषायांनिपुणमतिर्विद्यते । शकुनशास्त्रे चोक्तम्-त्रिविधानि शकुनानि, क्षेत्रिकं यात्रिमागन्तुकश्चेति-क्षत्रिक क्षेत्रमुद्दिश्य विचायते, यात्रिकं कस्मिबपिस्थाने, आगन्तुकश्च वर्मनि विलोक्यते । तत्राद्यं यथा-पृच्छकोयत्किश्चित्क्षेत्रविषयकं स्वमनसि विचारयेत्तत्कालायर्थ
विशेष कथयेदेवश्च क्षेत्रस्थपादपेषु निषष्म शास्त्रोक्तविधिना पक्षिणं दृष्ट्वा तत्फलस्य निवेदनं त्रिकं ज्ञानमुदाहृतं शकुनवेदिभिः । 1 यात्रिकं यथा-ग्रामान्तरं व्रजता पुरुषेण चतसृषु दिक्षु निरीक्षणीयम् । ग्राम्या आरण्यका वा प्राणिनः कस्यादिशि व्रजन्ति * कीदृशीं चेष्टाञ्च कुर्वन्ति, कीदृशानि वचनानि वन्तीति वेदनं यात्रिकं ज्ञानम् , तृतीयं यथा-प्रतिदिशं प्रतिप्रदेशश्च यानि
| ॥१४॥
For Private And Persone
n