SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ShriMahavir JanArchanaKendra Achanach sagan Gyaan श्री प्रथमः प्रस्तावः। अजितसेन शीलवतीचरितम् । ॥१६॥ प्रमोदभरा बन्दिजना उच्चैःस्तुतिपाठैर्जनानानन्दयन्तिस्म, राजवर्मनि समागतमजितसेनकुमारं मृत्तिमन्तं रतिपतिमिव निरीक्षमाणाः सर्वे नागरिकास्त्यक्तान्यकार्यास्तदेकध्याननिमग्नाःशशिकलोल्लासितकुमुदखण्डवद्विकस्वराबभूवुःअस्यकुमारस्य शरीरकान्त्या स्वकीयकुमारसंज्ञां मुधामन्यमान। कार्तिकेयसपा धारयतिस्म, अहो ! अस्माकं भाग्यं कीदृशम् ? यदीदृशीमस्य कुमारस्य दीव्यामाकृति सादरं संवीक्ष्य हृदयसरसो निरवकाशतया निर्गच्छताऽऽनन्दजलेन व्याप्तैरत्याश्चर्येण प्रफुल्लैनेत्रैरसौ निर्विघ्नतयाऽस्माभिर्विलोक्यते, अद्यैवाऽस्माकं जन्मसफलं समजनि, रूपान्तरेण धृतभव्यस्वरूपाय श्रीमदजितसेनकुमाराय नमोऽस्त्विति मुहुर्बुवाणा जनवाता विहिताजलयस्तं समभावतयाप्रणेमुः, सर्वत्र वर्मनि स्वस्वगृहद्वाराणि समुद्घाय्य तद्दिदृक्षवोजना बहूनि गवाक्षाणि व्यावृण्वन्तिस्म, तस्मात्तनगरमपि निर्जितकाममजित सेनरूपं विलोकितुं कौतुकेन स्फारदृष्टिवजमिवाऽदृश्यत! अनेकमण्डनविराजिततनुरजित सेन कुमारो महोत्सवपूर्वकं शीलवती परिणेतुं समागच्छतीत्येवं श्रवणानन्तरमेव तंकुमारं निरीक्षितुमुत्कण्ठिताःप्रम दवयसःपुराङ्गनाःप्रासादशिखराण्यारोहन्तिस्म, काश्चनप्रमदाः करधृतमुकुराः पार्वणशशिना पूर्णिमारजनीवद्विभान्तिस्म, काश्चनाऽलक्तरसाभिरञ्जितचरणतला बालातपकान्तिं परिपीय विकसितारुणपद्मिन्यइव विरेजुः । काधन ससंभ्रम सञ्चलन्त्यश्चरणस्खलनेन स्वस्थानात्संचलितमेखलाभिरवरुद्धपाद सश्चारा मन्थरगामिन्यः करिण्यइव बभुः। काश्चन करस्थितपुष्पमालाः स्वपतिमिलनोत्सुका अच्छस्फटिकमाला करे कृत्वा जपपरायणाः स्वीकृतरतिरूपा इव तस्थुः। काश्चन स्त्रियो मरकतमणिमय गवाक्षेषु स्थिता गगनारविन्दविभ्रम वितन्वन्त्यस्तंकुमारं विलोकयन्तिस्म, तद्रूपविलोकनकौतुकेन निनिमेषदृष्टयः स्वर्गवासिन्य इव सर्वायुवतयोनिरीक्षन्तेस्म, For Private And Personlige Only
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy