________________
प्रथमः प्रस्तावः।
पितुरन्तिके विनयशालितया भुविन्यविशत् । तदनुश्रेष्ठीकुशलोदन्तं पृष्ट्वा तमवोचत्-प्रियपुत्र ? तवमीलनोत्सुका हर्षाणिमुश्चन्ती अजितसेना
विह्वलचेतसं त्वज्जननीमभिवन्दस्व, पश्चात्वदर्शनोत्सुकान्साञ्जनान्दृष्टिविलासेन सम्भावयेतिपित्रादिष्टःसकुमारोजनका शीलवती
ज्ञानुसारीविनयाश्चितचेताःसत्त्वरंविसृष्टाऽन्यसेवकः सुमतिचन्द्रसमन्वितो निजमातृभवनंजगाम । अतीवशान्तमूर्ति परिहि
तशुद्धवसनामनय॑भूषणविभूषितावयवां धर्मवासितचेतसं मङ्गलेकनिधानं सकलजनस्पृहणीयशीला विविधकथानुवाद चरितम् ।
निपुणमात पुरातनवार्ताप्रसंगान्विवृण्वतीमैतिहासिकग्रन्थान्वाचयन्ती जनोपयोग्यजैनधर्मोपदेशं वितन्वन्ती वृद्धाभिः परिचा॥१२॥ रिकाभिर्विविधालापैर्विनोद्यमानो स्त्रीवेषधारिभिः स्त्रीभाषाश्चब्रुवद्भिः कश्चुकिभिनिषेव्यमाणां नानाचित्रितव्यजनैश्वामरैश्चवीज्य
मानां गृहीतवस्त्राभूषणपुष्पमालापटवासताम्बूलव्यजनविलेपनभृङ्गाराभिः समन्ततो मिलिताभियुवतिभिः सेव्यमानां पयोधरप्रदेशे लम्बमानेन मौक्तिकहारेण गिरिदयेवहमानया स्वधुन्या वसुन्धरामिवराजमानां स्वमातरमुपव्रज्य प्रणनाम । तदानीं कार्यदक्षेपदासीजनेषु निरीक्षमाणेषु निजासनात्समुत्थाय सा सप्रमोदं चिरमागतं मनुं स्वागतपूर्वक शुभाशिपा संवद्धर्थ शिरसि समाप्राय दृढतरमालिलिङ्ग । ततः सा सुमतिचन्द्र सत्कृत्य योग्यासने सनिवेश्य स्वयश्चनिजासनमास्थाय भूतले निषीदन्तमजितसेनं विनयाश्चितचेतसमनिच्छन्तमपिबलादाकृष्य निजोत्सङ्गे निवेशयामास । असकृत्तं समालिङ्गन्ती महेभ्यपत्नी ललाटपट्टे वक्षस्थले मस्तकेंऽसयोधमुहुः करस्पर्श कुर्वाणा व्याजहार । सूनो ! तब जनकस्य हृदयं वज्रादपि कठिनं विभाव्यते, यतखिसवनैकललामभूतेयं मनोहारिणी सुकोमला तव तनुश्चिरन्तनकालं विद्यागुरुकुलवासेन कैशैकभाजन विहिता । अस्यां मेदिन्या धन्यस्त्वं, बाल्यावस्थायामपि विबुधजनकार्यसम्पादको धृतधैर्यकञ्चुकः सर्वेषां प्रशंसनीयोऽसि, यद्भाल्योचितक्रीडनकापुत्कण्ठाऽपि दूरत
॥१२॥
For PvAnd Personale Only