________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
शत् । रत्नाकरस्याज्ञा गृहीत्वा सुमतिचन्द्रस्त्वरितगमनेन पधि सञ्चलन्सर्वजनसमेतो निरुपद्रवमेकान्तस्थितं शीतसुगन्धितवायुभिः संजुष्टं शान्त्येकनिदानं विद्यालयं सम्प्राप्य झटिति द्वारपालेन सन्देशं विज्ञाप्य तेनैव प्रवेशितस्तत्र कुमारसमिधी गत्वा तदाज्ञानुसारेण तदन्तिके संस्थितमासनमभूषवत् । ततः वर्ष विश्रम्पलब्धस्वास्थ्यः सविनयं सोऽवादीत् कुमारेन्द्र । तवपिता रत्नाकरः श्रेष्ठी मन्मुखेनैवं विज्ञापयति-अस्माकं सर्वे मनोरथाः सफलीजाताः, भवान्सर्वशास्त्राणां पारं प्रयातः, समस्ताः कलास्त्वया समभ्यस्ताः, निखिलशास्त्राणां परीक्षायां समुचीर्णोऽसि, तत्र लब्धप्रतिष्ठापत्रश्च संजातोऽसि । तस्मात्सर्वेकलाचार्यास्त्वां गृहगमनाय समादिशन्ति, चिरकालसञ्जातवियोगवेदनार्दिताः सर्वाः प्रजाः समस्तकलाविज्ञान परिपूर्ण भवन्तं पूर्णिमायाः शशाङ्कमिव संप्रेक्ष्य निजनेत्रयोः साफन्यं वितन्वन्तु। नगरवासिनः सर्वेजनास्त्वां प्रेक्षितुं परमोत्सुकमानसा वर्त्तन्ते । सप्तहायनस्य ते विद्यामन्दिरे वसतोऽधुनैकोनविंशतितम वर्ष जातमतोबहिनिष्क्रमणमिदानी विधीयताम् । सकलजनानां मातापित्रोश्वस्ववपुर्दर्शनेन महोत्साहं विधत्व, जिनेन्द्रपूजाराधनं विधाय सद्गुरूँश्चाभिवन्द्य धनधान्यादि महर्द्धिशालिपैतृकं पदं प्रतिपद्य यथाभिलाषं सदाऽनुवर्तस्त्र । सर्वे जनाः पितृवत्समावर्जनीया इत्युक्त्वा यावत्सुमतिचन्द्रोविरराम, तावदजितसेनः स्वपितुराज्ञां शिरसिमाल्यमिव समाधाय कलाचार्याणां मनः सम्पाद्य प्रणामञ्चविधाय गृहीततदानस्ततोनिरगात् । सुमतिचन्द्रसमेतः समारूढवाहनोऽजितसेनः समहोत्सवं निजगृहममियातुं प्रतस्थे, वर्मनि प्रतिस्थानं सम्मिलितानां पौराणां नयनानन्दं पर्द्धयमिजनिकेतनमियाय । तन्निरीक्षणकदत्तदृष्टीनांसदोगताना मध्यतोगत्वा मोदमानः स पितुः पादौ शिरसापस्पर्श, | तावत्पुत्र ? स्वागतमस्तुतवेति ससंभ्रमंवदनत्नाकरो निजवाइलतां प्रसार्य महताऽऽनान्देन तं समालिलिङ्ग । ततोऽजितसेना
For Private And Personlige Only