________________
ShriMahisvir Jain ArachanaKendra
Achanh
sagan Gyaan
स्त्वया परिहृताऽस्ति, पूजार्हेषु गुरुजनेषु निर्व्याजतया तवासाधारणी सेव्यबुद्धिः सहजातेव विराजते । विशेषतस्तबपितुःप्रसादेन यथाऽहं समभ्यस्तसकलविद्यातचं त्वामधुनापश्यामि, तथैवाऽचिरादनुरूपवधूवृतं त्वां विलोकयिष्यामीत्याशासे, इत्यभिधाय श्रेष्ठिनी स्मिताननमजितसेनं किश्चिद्रीडावनतमुखारविन्दं विलोक्य गण्डस्थलयोश्चुम्बनं विधाय तं व्यसृजत् । कुमारोऽपि ततः समुत्थाय तत्परिजन वर्ग संभाष्य पुनर्निज पितुरन्तिके समभ्येत्य सदोगतान्सर्वाञ्जनान्सम्मील्योचितासनमलङ्करोतिस्म । रत्नाकरोऽसकृत्तस्य शरीरसम्पत्तिमनुत्तरं रूपलावण्यश्चनिरीक्ष्य निजचेतसि व्यचिन्तयत्-सर्वगुणसम्पन्नोऽयं पुत्रो युवतिजनप्रार्थनीययौवनारूढोजातोऽस्ति । अतस्तदनुरूपा कन्या काऽपि विलोकनीया;-कवीश्वरः काव्यकृति नवीनां, योगीश्वरःशुद्धधियाऽऽत्मतत्त्वम् । विचिन्तयत्येवमनल्पबुद्धी-रत्नाकरो योग्यवधूस्वरूपम् ॥ १॥ समानलावण्यगुणा यदा कनी, न लभ्यते तर्हि विधातुरुद्यमः। कुमारमेतं प्रविधातुरुत्तम, मुधाभवेत्सर्वगुणैकभाजनम् ॥२॥ यतः--गुणींनो भवेत्स्वामी, परिवारोनयोज्झितः । विरूपास्त्री विमूढत्वं, शल्यमेतच्चतुष्टयम् ॥१॥ पुण्यवतामेव सुविहिताभार्यालभ्यते-उक्तश्चान्यत्र-सरसा सुपदन्यासा, सालङ्कारा सुवर्णमयमृतिः। आयी तथैव भार्या, न लभ्यते पुण्यहीनेन ॥१॥ तथाच-कुलं रूपं कलाभ्यासो-विद्या लक्ष्मीवेराङ्गना। ऐश्वर्यत्वं प्रभुत्वञ्च, धर्मेणैव प्रजायते ॥१॥ इत्थं विचारमालां ग्रथ्नन्महेभ्यो यावास्थितस्तावत्तत्र स्ववंशजः कश्चिदेकोवणिवसुतः समागम्य श्रेष्ठिनमभिवन्ध तस्थिवान् । तदा व्यवहारिणा कुशलवाचा पृष्ट्वा स भणितः,-व्यापारार्थ देशान्तरं पर्यटतस्तव कियाँल्लाभोजनि ? तदुक्तिमाकण्ये वाणिसुतःप्रोवाच-श्रेष्ठिपुङ्गवभवदाज्ञां समादायाई देशान्तरमव्रजम् , तत्रानेकग्रामनगरपुराणि विलोकमानो द्वीपान्तरे परिभ्रमन्गृहीततत्तद्देशक्रयाणाकोहमेकस्मिन्वासरे सर्वदा मङ्गलमालासमन्वितायां धनधान्यादिस
For Private And Personlige Only