________________
ShriMahavir JanArchanaKendra
Achanh
sagan Gyaan
अजितसेन शीलवतीचरितम् ।
| भूरिदानैः सन्तोष्य स व्यसर्जयत् । अथ कियत्सु दिनेषुगतेषु शुभमुहूर्तोपलक्षितेसमये स्वच्छचेतसस्तत्पत्न्याः श्रियः कुक्षौ प्रथमः कृतपुण्यः कश्चिजीवोदिव चुचा निर्मलजलसंभृतेसरसिशशाङ्कविम्बमिव स्वाती सागरशुक्तिकायां मौक्तिकमिव गर्भतया प्रादु- प्रस्तावः।
भूव । सगर्भः शुक्लपक्षीयश्चन्द्र इव दिनेदिनेवृद्धिपुपोष ततः साश्रीः कृशशरीरावयवा समग्रभूषणान्यधारयन्ती लोध्रसुमवत्पाण्डुवदनच्छविविरलतारकश्रीविभातकल्पाशर्वरीवाभिलक्ष्यतेस्म । चीरोदधिजलहारिणी मन्थरगतिमेघमालेव गर्भभारेणमन्दसञ्चारा* साऽभवत् । पुनःपुनर्जुम्भमाणा किश्चिनिमीलितनेत्रकमला किचिनिःश्वसन्ती सा श्रान्तदेहेवाऽदृश्यत, सुधाकल्पेष्वपि सुस्वादुपदार्थेषु सा मनोऽभिलाषनाकार्षीत् । केतकीकुसुमवदङ्गलतिका नूतनजलधरवच्छयामीभूतपयोधरचूचुका तांविलोक्य परेङ्गितज्ञाननिपुणमतिस्तदासीगणः सगर्भा कलयामास । तासु सर्वासु प्रधानपदमारूढा, सदा श्रेष्ठिकले निवासतया सर्वकार्यविधानेऽतिदक्षा, सततपरिगृहीतश्रेष्ठिनीसान्निध्यात्प्रगल्भतरबुद्धिवैभवा, सकलमङ्गलकर्मनिर्माणेपटुतराप्रियदर्शनाख्यैका वृद्धपरिचारिका तदन्तिकेन्यवात्सीत् । अथाऽन्यदामङ्गलमये प्रभातसमये रत्नाकरः श्रेष्ठी निजास्थानमण्डपेसमुपविष्टः । यस्याङ्गरागेण सुगन्धितादिग्विभागा बभूवुः, परितः प्रसारिणा यदीयतेजसाक्षीणप्रभा इव दीप्राअपि तैलदीपाः सहस्रशोज्वलन्तिस्म । ज्योतिश्चक्रमध्यवर्ती शारदेन्दुरिव सहस्रफणिमणिगणानाम्मध्ये संस्थितो नारायण इव स विरराज । तदानीमन्येऽप्यवसरज्ञा व्यवहारिणस्तत्रसमागत्यस्वोचितस्थानेष्वस्थुः । परिजनार्गः किश्चिदरतस्तस्थौ, स्वसमीपवर्तिन्यासनेस्वकीय
प्रियसुहृत्सुमतिचन्द्रो जलनिधिरिवाऽगाधगाम्भीर्यः समुपविष्टः, तेनसाकं विश्वास्यतया निश्चिन्तो रत्नाकरः श्रेष्ठी विविध * वार्तालापं विदधाति तावदयसरमासाद्य प्रियदर्शना तच्छ्रोत्रविवरे मन्दस्वरेण श्रेष्ठिन्या गर्भवार्त्तान्यवेदयत् । असंभाव्य
॥ ८ ॥
For Private And Personlige Only