________________
* मग्रेसरोऽपि ॥ १ ॥ नवकुमुदवनश्रीहासकेलिप्रसङ्गा-दधिकरुचिरशेषामप्युषां जागरित्वा । अयमपरदिशोऽके मुञ्चति स्रस्त
हस्तः, शिशयिपुरिव पाण्डं म्लानमात्मानमिन्दुः ॥२॥ ततो रत्नाकरेण निजदूतान्संप्रेष्य स्वप्नवेदिनः समाहुतास्तेऽपि श्रेष्ठिनो निमन्त्रणं स्वीकृत्य सन्चरं विहितस्नानादिक्रिया विशुद्धवस्त्राभरणानि परिधाय करस्थितपुस्तकाः सहर्षाः श्रेष्ठिनोगृहं समाजग्मुः । इतः श्रेष्ठिनाऽपि निजसेवकैः सभास्थानं समलङ्कारितम् , यथायोग्यमासनादि सकलसामग्री च प्रगुणीकारिता । अन्तःपुराङ्गनानामुपवेशनाय समुचितं पृथक्स्थानं परिकल्पितमस्ति । तदनु रत्नाकरः श्रेष्ठी विहिततैलाभ्यङ्गपूर्वकस्नानविधिविशुद्धवसनयुगलं परिधाय प्रभोः पूजा विधाय निजनिकेतनंसमागत्य सभोचितवस्त्राभरणैर्विभूषितगात्रा सभास्थानमुपाविशत् । तत्पत्न्यपि निर्वृत्तप्रभुपूजनादिसत्क्रिया करकमलाभ्यांगृहीतश्रीफला स्वोचितस्थानमभूषयत् । ततः स्वप्ननिवेदका योग्यस्थानस्थिताः श्रेष्ठिना सत्कृताः, तथैवाऽन्येऽपिजनाः स्वोचितस्थानानि भेजुः, सर्वेसभ्यजनाः स्वप्नफल. श्रवणेच्छया कौतुकिनस्तुष्णीं तस्थुः । ततो रत्नाकरः श्रेष्ठी सविनयं रचिताञ्जलिः स्वप्नपाठकानपृच्छत्-भो वैज्ञानिकाः ! अस्यां गतविभावर्या स्वप्नावस्थामनुभवन्ती श्रेष्ठिनी स्वमुखे प्रविशन्तं कुमुदवन्धुमपश्यत् , तस्य किं फलं भविष्यतीतिस्फुट छूत, यथा सर्वेसभासदः शुद्धान्तस्त्रियश्चभवतां मुखेनैवभृण्वन्ति तथाविधीयताम् । ततः स्वप्नपाठकाः स्वस्वप्रज्ञानुसारेण तत्फलं निश्चित्य मिथोमन्त्रयित्वा तेषां मुख्यश्चैकः पाठकोऽवदत्-श्रेष्ठिन् ! अस्य स्वप्नस्य फलमत्युत्तमं वर्चते, सर्वदा सर्व सम्पनिदानं शर्मप्रदाने चिन्तामणिसमप्रभावमेतद्विभाव्यते । असादेव स्वप्नाचत्कुलप्रदीपकः सकलगुणसम्पदाढ्यस्तवपुत्रो भविष्यति । इत्थं नैमित्तिकमुखानिर्गतामचरश्रोणि समाकर्ण्य तौ दम्पती रोमाश्चितगात्रौ समजनिपाताम् । ततः स्वप्नपाठकान्
For Private And Persone
ly