________________
श्री
प्रथमः
अजितसेन शीलवतीचरितम् । ॥ ७॥
।
शय्यायामस्वाप्सीत् , किश्चिभिद्रायमाणा सा नभस्तलादवतरन्तं सकलकलासम्पूर्ण शशाई स्वमुखे प्रविशन्तं संप्रेक्ष्य विगतनिद्रासमभूत् । अनेकधा सा तत्स्वप्नस्वरूपं स्वयंविचारयामास । ततः सा पादपीठिकायां पादौनिधाय शयना
सनतः समुत्तीर्य सर्वाङ्गेषु परिहितवसनाभरणा नातिशीघ्रगमना नातिमन्थरगतिःकलहंसीगतिमनुकुर्वन्ती निजमर्त्तः शयन| गृहं स्वकान्तिभरण प्रकाशयन्ती जगाम । निद्राधीनं निजभचारं विलोक्य सा श्रोतृणामानन्दसन्दोहदायकैबहुर्थबोधकै| लघ्वचरैरधरीकृतसुधास्वादैर्मधुरवाक्यैर्विबोधयन्ती तत्पादारविन्दस्पर्शनेन विनिद्रं चकार । समुत्थितेन स्वस्थचेतसा श्रेष्ठिनाऽऽकास्मिकं तदीयमागमनं विज्ञाय सन्मुखस्थिते विष्टरे स्थीयतामित्याज्ञप्ता सानिषसाद । मार्गागमनश्रमं शनैः शनैः सा व्यनैषीत् । ततः श्रेष्ठी मधुरवाण्यातामपृच्छत्-शशिवदने ! अनामयं ते वर्ततेकञ्चित् । इदानीमत्रागमने किं प्रयोजनं तत्स| त्वरं निवेद्यताम् । श्रेष्ठिन्यवदत्-स्वामिन् ? अद्यनिशायां सुखशय्यां निषेवणाया मम मुखे प्रविशन्तं निशाकरं स्वप्ने * विलोक्य जागरिताऽस्मि । अस्यस्वप्नस्य कीदृशं फलं भावि तत्कथय, विज्ञाततत्सारः श्रेष्ठी कश्चित्कालं विचार्य प्रोवाचसुन्दराङ्गि ! त्वया प्रशंसनीयं स्वप्नमदर्शि, तच्च भूरिफलप्रदं विज्ञायते, मङ्गलमालाजनकं मनसाऽप्यगम्यलाभोत्पादक सुखसम्पत्तिविधायकं पुत्ररत्नप्रदायकञ्चेदं स्वप्नमस्ति । इति निजस्वामिमुखानिःसृतां गिरं निशम्य हृष्टा सती श्रेष्ठिनी जगाद-स्वामिन् ? भवदुक्तिस्तथैव सत्या जायतामितिनिगद्य सा तत्स्थानान्मन्थरगतिर्निजप्रासादमभिगम्य सखीभिः सार्द्ध वार्तालापं वितन्वन्ती ज्ञानध्यानपरमात्मस्तुतिपाठेन च शेषांनिषांव्यनैशीत् । प्राभातिकः समयोञ्जनि-व्रजति विषयमणामंशुमाली न याव-तिमिरमखिलमस्तं तावदेवाऽरुणेन । परपरिभवि तेजस्तन्वतामाशुक , प्रभवतिहि विपक्षोच्छेद
॥
७
॥
For Private And Personale Only