________________
Achana
agarson Gyarmande
तद्वारप्रदेशेऽजितबलादेव्याः सुरूपाप्रतिमास्ति, महाप्रभावशालिनी समग्रजनेषु विदितैश्वर्या सर्वबाधोपघातिनीमेतां विज्ञाय प्रमुदितः स श्रेष्ठी मन्दिरान्तः प्रविश्य प्रभोः पूजां यथाविधि भावतोऽकार्षीत् । ततो बहिरागत्याजितबला देवींसंपूज्य पुत्र प्राप्त्यर्थ प्रत्याख्यानपूर्वकं विहितोपवासः स श्रेष्ठी प्रार्थयामास-देवि ! प्रसीद ममशान्तिकरं गुणनं, देहि प्रभाकरनिर्भ भुवनेश्वरि ! त्वम् । सूनुं समाश्रितजनं न हितर्जयन्ति, दीव्यप्रभावकलिता ललितस्वभावाः ॥ १ ॥ ततः सा देवी प्रसन्नीभूय तस्मै पुत्रवरं प्रादात् । अहो ! पुण्यस्यमहिमा, नहिमाति जगत्रये । चिन्तामण्यादयोऽमी यत्-सेवकस्यापि सेवकाः | ॥१॥ किञ्च-लक्ष्मीमानयति प्रियं प्रथयति प्रत्यूहमुन्मूलति, द्वन्द्वे द्विष्टचलं पिनष्टि हरति व्याघ्रादिभूतं भयम् । कान्तारे सह
बम्भ्रमीति दिविषद्वर्ग विधत्ते वशं, पुण्यं पुण्यवतां न किं वितनुते प्राचीनमूर्जस्वलम् ॥२॥ तथाच-अत्युत्कटात्पुण्यपापा-दिहैव | फलमश्नुते । क्रिया फलति कालेन, बहुधाऽपि कृता नरैः ॥३॥ शुभकर्मोदयः स्याचे-जनानां शुभकर्मणाम् । तत्कालं
फलमामोति, धर्मकार्यविधानतः॥४॥ पुनः सा देवी जगाद-भोः श्रेष्ठिन् ! त्वं सुखेन गृहं प्रयाहि, तव मनोभिलाषाः सफला| भविष्यन्ति, इति देव्याः सुधासोदरां गिरं निपीयप्रमुदितमनाः श्रेष्ठी प्रभुं वन्दित्वा देवीचन्दनञ्च पुनर्विधाय स्वस्थानं जगाम । गृहंगत्वा निजभार्या प्रत्यवदत्-भगवतोऽजितनाथस्य प्रसादेनाद्याजितबलाख्यदेव्याऽस्माकं दुःखं दूरीकृतम् । पीयूषप्रख्यमेतद्वचनं सादरं समाकण्ये सा प्रभृतप्रमोदमावभार। ततः सा निजभर्तारं सर्व तव्यतिकरमपृच्छत्-श्रेष्ठिना देवीवरप्रदानादिकं सकलं वृत्तान्तं सविस्तरं तस्यै न्यवेदि । अथ तौदम्पती मोदमानमनसौ संसारसुखमन्वभूताम् , तथैव दानपुण्यं परिशीलयतोस्तयोः प्रभुपूजादिधर्मध्यानेनैव सकलः समयो व्पत्यगात् । इतोऽन्यदा सा श्रेष्टिनी नानाचित्रचित्रिते मनोहरे शयनभवने सुकोमलाया
For Private And Personlige Only