________________
Shri Mahavir Jain Aradhana Kendra
श्री
अजितसेन
शीलवती
चरितम् ।
11 & 11
***
www.khatirth.org
कियद्धि तेषामिहलोकसङ्गतं शुभार्थिनस्तच्छुभकर्मसक्ताः ॥ २ ॥ इति तां प्रबोध्यजलमानाय्य तेन सुकोमलेनकरपल्लवेन श्रेष्ठिन्या अश्रुधाराभिर्मलीमसं वदनाम्भोजं स्वेनैवामार्जि । ततस्तच्छोकशङ्कदूरीकरणार्थं चाटूक्तिभिर्व हुशस्तां वार्चयन्मुहुहुराश्वास्य रत्नाकरइभ्यस्तदन्तिकात्स्वस्थानमियाय । अथ श्रेष्ठिपत्नी श्रीर्मन्दीभूतेशोकप्रस्तावेस्वोचिताऽलङ्कारान्यथाहयंशुकानिच परिदधती दिनकृत्यानि यथार्ह समाचचार, प्रतिदिनं जिनेन्द्रपूजां भावतो विदधातिस्म, यतिचर्यायां परायणा सा सत्पात्रमुपलक्ष्य निजसम्पति दानव्ययेन सफलयामास । सकलं समयं सा धर्मकृत्येष्वेव व्यनैषीत् । रत्नाकरः श्रेयपि निरन्तरं सप्तक्षेत्र्यां नीत्युपार्जितं निजं द्रव्यं वपतिस्म । विशुद्धभावेन कन्पपादपोपमां जिनप्रतिमां प्रत्यहं पूजयति स्म, एवं धर्माराधनं नित्यं कुर्वतोस्तयोर्दम्पत्योर्वासराव्यगमन् । अथाऽन्येद्युर्निशि शयानः किञ्चिजाग्रनिद्रावस्थो रत्नाकरो निजचेतसीति विचारयामास । श्रस्मान्नगराद्वहिरुद्याने श्रीमदजितनाथस्य भगवतो मन्दिरं विराजते, प्रभाते तत्र गत्वा प्रभु पूजां विधाय सद्भावनां करोमिचेन्मम कार्यसिद्धिर्ध्रुवं प्रजायेत । एवं चिन्तयति तस्मिन्सा रात्रिर्व्यतीयाय, सूर्योऽप्युदयाचलचूलां दिगन्तराणि दिचुरिव समारूढः, प्राचीदिशा पितवर्णा बभूव । यतः -
अभूत्पिङ्गा प्राची, रसपतिरिव प्राप्य कनकम्, गतच्छाययन्द्रो-बुधजन इव ग्राम्यसदसि । चर्यं चीणास्तारा - नृपतय इवाऽनुद्यमपराः, न दीपा राजन्ते द्रविणरहितानामिव गुणाः ॥ १ ॥
विदित प्रभातसमयो रत्नाकरः शय्यातः समुत्थाय नमस्कारमन्त्रं स्मृत्वा मञ्जनगृहान्तः प्रविश्य प्रसाधितस्नानक्रियः शुद्धवसनानि परिधाय सर्वाणि पूजनार्हाणि महार्घ्याणि वस्तूनि समादाय नगराद्वहिर्वाटिकायां श्रीजिनालयमगमत् ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
+7934-09-20
-*-*-*-*-*
प्रथमः
प्रस्तावः ।
॥ ६ ॥