________________
ShriMahavir JanArchanaKendra
Achh
agan Gyaan
तघृतबिन्दुशुक्लसर्पपमिश्रकिश्चिद्विभूतिगोशीर्षचन्दनेनेपद्रक्तकण्ठस्त्रप्रन्थिमचिकायामुत्तानशयोनिर्दशनमुखाम्भोजेनमन्दमन्दं हास्यं कुर्वस्तनयो ममहृदयमानन्दभाजनं कदा विधास्पति ? गोरोचनावस्कपिशकान्तिः पुनःपुनरन्तापुरपुरन्ध्रीयां करकमले सञ्चार्ममास सकलजनवन्दितो मङ्गलप्रदीपइव शिशुरन्धकारावृते मच्चक्षुषी कदा प्रकाशयिष्यति ? भूमिविलुठनेन रजोभिधूसरिताङ्गो बालो मे हृदयं नेत्रे च संहरन् रिखमाखोऽस्य भवनाङ्गणस्य शोभा कदा वर्द्धयिष्यति ? चरणावफातगमनानन्तरं सिंहशिशुरिव मणिमयभित्तिषु दृश्यमानानां मृगवालानां रक्षितानामिव बन्धनाय परितो मदृष्टिगोचर कदा धाविष्यति ? हंसगामिनीनामन्तःपुरस्त्रीणां नूपुराणां नादं समाकर्ण्य ता अनुव्रजन गृहाभ्यन्तरे प्रधावन्वाला सुवर्ण कटिमेखलायाः किङ्किणीनां मधुरनादमादधानां धात्री कदा व्याकुलयिष्यति? परिपदि निषमं सपरिवारं मां श्रीमद्भिः प्रसारितकरकमलैः सभ्यजनैः पुनःपुनर्यगृहीतुमिच्छद्भिरभिनन्द्यमानो बालो महार्ण्यमखिभूषातेजोभिर्व्याहतदृष्टिप्रसारः परितोरममाणो मदन्तिकमागच्छन्कदामामालिङ्गिष्यति । इत्यनेकशो मनोरथपरम्परां विचिन्तयतो हृदिखिद्यमानस्य तस्य कष्टप्रदायिनोवासरा व्यतियन्ति । पुनः सचिन्तयति, अस्या बन्ध्यताया शोकोमामपिरात्रिन्दिवमनिवदहतितराम् । सर्वसमृद्धिस म्पन्नं जगदिदं शून्यमिव मे भासते । इदं सकलं धनधान्यारामप्रासादहट्टादिकं निरर्थकमिव मे नरोचते, परं विधातुरले मानवसामर्थ्य कियन्मात्रमतोऽस्माकमस्मिन्कार्ये कश्चिदुपायोनविद्यते । प्रियवद्रों ! इमं सन्तानशोकं परित्यज्य धैर्यश्चावलम्ब्य सद्धर्मसमाचरणेऽमोघां मेधां समाधत्स्व । यतः-"सद्धर्मवृक्षः किल माववार, सेसिच्यमानो नितरांजनानाम् । परत्रचामुत्रफलानि लोके, ददात्यसौ सर्वसुखप्रदानि ॥ १ ॥ कल्याणसम्पत्तिरजसमेति, सान्निध्यमाराधितधर्मकर्मणाम् ।
For Private And Personlige Only