________________
ShriMahavir JanArchanaKendra
प्रथम: प्रस्तावः।
अजितसेन
शीलवतीचरितम् ।
णम् । धारानैव पतन्ति चासकमुखे मेघस्य किं दूषणं, यद्धात्रा निजमालपट्टलिखितं तन्मार्जितुं का चमः १ ॥१॥ येनाञ्चलेन सरसीरुहलोचनाया-त्रातः प्रभूतपवनादुदयेप्रदीपः । तेनैवसोऽस्तसमयेऽस्तमयविनीतः, क्रुद्ध विधौ भजति मित्रममित्रभावम् ॥२॥ तथापि मनुष्यजातेर्यावत्कर्त्तव्यमस्ति तावद्विधेयंश्रद्धालुतया । भामिनि ? गुरुजनेष्वधिकाभक्तिस्त्वयाविधीयताम् । जिनेश्वरस्य पूजनं सर्वेष्टप्रदं भावतया विधिपूर्वकं प्रत्यहं क्रियताम् । जीवरक्षा च निजोपयोगतया विधातव्या, दीनेभ्यो दानं वितीर्यताम् , महाव्रतधारिणां साधूनां साध्वीनाञ्च शुश्रूषायां मनोऽभिलाषाऽधिकतरा प्रकटीक्रियताम् । यतो यस्योपरिनृपस्यानुग्रहस्तस्मिञ्जने मन्त्र्यादयः सर्वे प्रसना भवन्ति । यथा कृष्णचासुदेवो देवस्याराधनां विधाय स्वमातुर्देवक्या गजसुकुमालपुत्रमदापयत् । अभयकुमारश्च देवताया आराधनयैव धारिणी राझ्याः असमये जीमूतदोहदमपूरयत् । कृष्णा पुनर्देवोपासनावलालवणसमुद्रं प्रतीर्य धातकीखण्डं ययौ । तस्माद्देवानाम्माहात्म्यमलौकिकमस्ति, अतस्तेषामाराधन विहितनेते देवा अचिरेण संतुष्टा यथेष्टं फलमतिदुर्लभं वरच प्रयच्छन्ति, महात्मना सेवाऽमोधफलं जनयते । इस्थं स्वप्रियामाश्चास्यस्वयंविचिन्तयति-रे दैव ! मझार्यामहं प्रफुल्लगर्भभारोद्वहनान्मन्थरगमनां शरीरकार्यादसमप्रविभूषा
लोध्रकुसुमवद्गौरतरांमुखशोभामाकलयन्तीं पौर्णमासीनिशामिव कदा विलोकयिम्ये ! ननु पुत्रजन्ममहोत्सवस्थामन्दानन्दे | निमयोऽहं सूनुजन्माचरामृतदायिभ्योऽन्तःपुरवासिम्योपरिमितं तुष्टिदानं कदा समर्पयिष्ये । बालतृणोपमहरितवस्त्रालि परिधाय निजोत्सङ्गे सुतं निधाय प्रफुल्लवदनारविन्दा सा प्रियपत्नी शुभासनसमारूढा समुदितेन तिग्मांशुमण्डलेन पीतकान्तिप्रसरा दिगङ्गनेव कदा मामानन्दयिष्यति ? । सर्वामिरौषधिभिः सुरञ्जितजटीभूतकेशो रचाकृते तालुस्थि
॥ ५
॥
For Private And Personlige Only