________________
ShriMahavir JanArachanaKendra
Acharya:shaKailassagarsunGyanmandir
पराधोऽस्मिन्विषयेनैवसम्भाव्यते, सर्वशक्तिमतित्वयिविद्यमानेकश्चिदप्यन्यः परिजनोऽपराद्धं कुतः समर्थोभवेत् । परन्तु क्रूरस्यकस्यचिन्महोग्रग्रहस्यपीडया वा दुर्दैवयन्त्रणममस्वामिनः समागमोनिष्फलोजायते, यतः संभोगजन्यं यत्फलंतत्रैवाहलभे, इति प्रत्यहं मत्स्वामिन्याश्चेतसिचिन्तावर्त्तते। भूरिकालाच्चैवंसन्तापपरम्परामसावनुभवति । तथाप्यद्यपर्यन्तं भवतोहृदयपीडां निवारयितुं किञ्चिदपिनिजमनोव्यथां न प्रदर्शयति । परन्त्वस्मिन्दिनेतयाकिमेतादृशंकिश्चिद्विलोकितम् ? किंवावदान्यजनमुखात्किश्चिच्छुतवास्वयमेववाचितंतद्वयं न जानीमः । सर्वपरिचारिका वयं नामं नामं तां प्रार्थयामस्तथाऽपि सा भोजनं न करोति, भोजनसमयोऽपिव्यतीत आभूषणान्यपिनाङ्गेपरिधारयति, प्रत्युत्तरमपिनो ददाति, केवलमविरलाश्रुबिन्दुदुर्दिनेन मुखाम्बरमन्धकाराच्छादितंविधाय सा रोरुद्यते । इदानींभवतामाक्षेतिनिवेद्य सा तुष्णींतस्थौ । ततोरत्नाकर श्रेष्ठीकश्चित्कालं विश्रम्यदीर्घतरं निम्श्वस्यमुखश्रियंम्लापयन्नुवाच-प्रियवादिनि ? दैवायत्तेऽस्मिन्कार्ये नास्त्यस्माकमुपायः, अलमतिशोचितेन, भवितव्यतयैव प्राणीनां शुभाशुभमुपजायते । यतः-यद्भाव्यं तद्भवत्येव, नालिकेरफलाम्बुवद् । गन्तव्यतत्प्रयात्येव, गजभुक्तकपित्थवद् ॥१॥ आवयोरुपरिदेवतानां तादृशोऽनुग्रहोनैवविद्यते, किंवा पितृदेवा अस्मत्पराङ्मुखाःसंभाव्यन्ते, कुलदेव्याश्चमन्दप्रसादोऽनुमीयते, येन पुत्रालिङ्गनसुधास्वादस्यसुखमावयोहृदयस्यदुर्लभमस्तीति विज्ञायते । प्राक्तनजन्मनि चैतादृशंसुकृतमस्माभिर्नोपार्जितम् । यै प्राणिभिः पूर्वजन्मनि यादृशंकर्मविहितं तादृशंफलं प्रेत्य तेवशा लभन्ते । यतः कविरहस्ये-पूर्वजन्मनियस्कृत्यं, विहितंयच्छुभाऽशुभम् । तत्तदेवनरोलोके, ह्यवशोलभतेनिशम् ॥ १॥ तस्मादनेकेषुप्रयत्नेषुकृतेष्वपिदैवनियोगोऽन्यथाकर्तनशक्यते । उक्तश्च-पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किं, नोलूकोऽप्यवलोकते यदि दिवा सूर्यस्य किं दुष
For Private And Personlige Only