SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Acharyanagencyamanar प्रथम: प्रस्तावः। अजितसेन शीलवतीचरितम् । स्थ्यमवाप । स्वकराब्जेन तत्कपोलसंलग्नानश्रुविन्दुनसंमार्जयन्पुनरवदत्-प्रिये ? अन्तःकरणस्यप्रबलशोकातिरेकान्मन्दमन्दं निम्शब्दरोदनं किमर्थकरोषि ? पश्य ? इमास्तवपदमपतयोमौक्तिकानीवाणि ग्रथ्नन्ति, अयि कशोदरि ? नानाविधान्या* भूषणानिकथं न धृतानित्वया ? तन्वङ्गि! लोहितपायमानचरणयोः प्राभातिकार्ककान्तिवदलतकरसः कथं न सिञ्चितः? तब चरणकमलेऽद्यमनोभवसरसिकलहंसवदाचरन्मणिमयनू पुरयुगलं कथं न स्पृशति ? प्राणप्रिये? मनोहरस्तेकटितटः किमर्थ रत्नकाञ्चीविरहं निषेवते ? शीतांशौमृगचिन्हमिवकृष्णागरुचन्दनस्यपत्रविभ्रमः पङ्कजकोशयोरिवगौरपयोधरयोः कथं न दृग्गोचरीभवति ? कम्बुकण्ठि १ शितिकण्ठभालसंस्थितचन्द्रकलानुकारिणीग्रीवांगङ्गाप्रवाहोपमहारावल्याकुतोनविभूषयसे? विलासिनि ? कथं त्वयाऽद्यबह्वश्रुजलाभिपातेनकपोलभिच्योः कुङ्कुमरागोनिष्कारणंप्रक्षालितः ? सुकोमलाङ्गलीकरणिकासुशोभितशोण | करकमलंकर्णपूरमिवकथमवधारितम् ? गौरचन्दनोज्झितललाटपट्टीपरिसंस्थितकेशराजिः कर्थनसमीचीनीचक्रे ? मृगलोचने ? मृगाङ्ककलाहीनकृष्णपचप्रदोषवदयंतवश्यामतररुचिस्त्यक्तसितप्रसूनोधम्मिलोममलोचनयोः खेदमुत्पादयति । तस्मात्प्रसादविधाययत्किमपिदुःखनिदानंसद्योमेब्रूहि । मृगनयने ? तववक्षोजस्थगितंसूक्ष्मांशुकंधुन्वन्दीर्घतरोच्छ्वासवायुर्ममनवपन्नवामिवसरागंहृदयं वेपयति । तस्माद्वद किं मयाजानताऽपराधोविहितः ? वा मदीयः परिजनस्तवविरुद्धत्वं किं समाचरत् ? मया:थवाऽन्यपरिजनैस्त्वत्सम्बन्धीविरुद्धाचरणलेशोऽपि नैवाचरित इतिसत्यमेप्रतिभाति । ममप्राणधनानिचान्यत्सर्वत्वदायत्तानिविजानीहि । चारुभाषिणि? शोकहेतुंनिवेद्य मा स्वस्थीकुरु । इत्थंसाग्रहपृष्टापिसाशोकात प्रत्युत्तरंनादात्तदा स वणिग्वरोबह्रश्रुपातप्रयोजनं तस्यादासीवर्गपृच्छतिस्म । ततः कमललतानाम्नी तद्दासीवेष्ठिवचनंनिशम्यप्रोवाच-महेभ्य ? भवतोलघुरप्य ॥४ ॥ For And Person
SR No.008515
Book TitleAjitsen Shilwati Charitram
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherAjitsagarsuri Shastra Sangraha
Publication Year1928
Total Pages244
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy