________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
रत्नाकरश्रेष्ठी जगाम । सुकोमलायां महायसंस्तरणसमाच्छादितायां मनोहारियां शय्यायां निषमा विलपन्तीमश्रुधारा विललोचनां नीहारावृतां शशाङ्कलेखामिव मलिनक्दनारविन्दकान्ति तां श्रियं स व्यलोकत । तदीयो दासीगणः पटुमतिः समन्तात्ससंभ्रम सेवापेषी विज्ञातस्त्रामिनीशोककारणश्चिन्तानिमग्नस्तब्धोऽजनिष्ट । सर्वेऽप्यन्तःपुरवासिनस्तुप्णीमवतस्थुः। कञ्चुकिनोध्यानारूढमनस इव स्थगिताः सङ्कुचिताक्यवास्तां सिविरे । ईषरस्थितास्तदन्तःपुरवृद्धस्त्रियस्तामाश्वासयन्तिस्म, समन्तादविरलाश्रुपातेन तस्याः परिहिसवसनमार्द्रमजनिष्ट, सर्वाग्यलकरणानि चाङ्गोपाङ्गेम्यः परित्यक्ताकि तया । अबद्धामृर्द्धजा इतस्ततो मुखश्रियमाच्छाद्य व्यकिरन् । यत:-"अपुत्रकाणां गृहिणां मनांसि, चिन्ताजलाचिर्दहति प्रकामम् । गृहाश्रमः सन्ततिमूल एव, प्रशस्यते सर्वजनोपकारी ॥१॥ अतः शून्यभावमभिव्यञ्जयन्तीम लघुशुचादितहृदयां गाढतरं निःश्वसन्तीमशवं रुदन्ती दैवजन्यदुःखपरम्परानुभवं परिशीलयन्तीमिव व्याकुलितचेतसं स्वप्रियां सादरं संप्रेक्ष्य यावद्रत्नाकरस्तदन्तिकमियाय, तावत्सा सत्वरंपतिगुणगौरवाकृष्टमानसादीव्योपधानशय्यासनतः समुत्थाय कृताञ्जलिपुटा तं प्रणनाम । ततस्तदपध्यानशृङ्गारूढां तादृगवस्था ता प्रेक्षमाणोरत्नाकरः प्रोवाच-प्राणवल्लभे ? किमिदमकालेशोकोत्पत्तेः प्रयोजनम् ? शारीरिकाव्याघरस्तुस्वमेऽपित्वया नपरिचीयन्ते, तचिकित्सकानां धन्वन्तरिजन्मजुषा बाहुल्यात् । मानसिकानाधयोऽपिविशोषितसर्वाङ्गसत्त्वा नैवाऽवकाशलभन्ते, पुरार्जितपुण्यवैभवेनमनसाऽप्यगम्यमहिम्नां वस्तुजातानां सुलमत्वात् । दैवजन्योपाधिरपिप्रायोनोपसम्भाव्यते, यतस्तादृशानिकर्माणि न विहितानि । अथवा न जानेपूर्वार्जितान्तरायः स्याबदीत्थंतांपच्छन्सश्रेष्ठी तदधिष्ठितशय्यायामुपविष्टः, तस्या अश्रुपातकारसमजामानः स किश्चिदस्वा
For Private And Personlige Only