________________
Shri Mahavir Jain Aradhana Kendra
श्री
जिवसेन
शीलवतीचरितम् ।
॥ ३ ॥
Re-***()**<>*08<-+11+******++
www.kobatirth.org
Acharya Shri Kissagarsun Gyanmandir
For Private And Personal Use Only
동시다
आषाढवारिवाह भ्रमविधायिनो हस्तिगणाः, प्रभञ्जनध्येयजवना वाजिराजाः, अभिनवृत्तयः संभावितकीर्त्तयः स्वाम्येक कार्यकरणेषूद्यताः पदातिव्राता अनेकशस्तस्य बभ्रुवुः । तस्मिँश्चनगरे प्रभूतधनवन्तो व्यवहारिणः सन्मतमतिशालिनस्वस्थुः । तेषामग्रणीर्गुणगणराजितमूर्त्तिः सर्वसम्पत्तिमान्, बुद्धिमहोदधिर्दयादाक्षिण्यतितिक्षासमन्वितो लब्धप्रमाणपत्रः प्रशान्तकषायो जितारिषद्र्गो जैनधर्मानुरक्तो विहितानेकलोककार्यः सतांमान्यो लब्धराजप्रसादो नृपदत्तग्रामादिवैभवशाली रत्नाकरनामधेयो विदांवरः श्रेष्ठिप्रवरः समभूत् । तस्य सद्गुणधारिणी पति सेवायामुत्सुकमनाः सदा मनोरमा सुशीला निजभर्तुराज्ञानुवर्त्तिनी साक्षात्क्षिरोदतनयेव श्रीनामा पत्नी बभूव । सा च नागवल्लीदलवच्छुभगुणैः सर्वेषां माननयाऽभवत् । योग्यसम्बन्धभाजोस्तयोर्दम्पत्योः संसारसुखं भुञ्जानयोरानन्द क्षीरोदधौनिमग्नयोः कियान्कालोव्यगमत् । परं तयोः पुत्रप्राप्तिरूपं संसारसुखं केवलं नाऽभूत् । तदा तेन श्रेष्ठिना सकलद्धिसंजुष्टं सर्वसुखदं स्वान्तःपुरं विकसितप्रसूनं शरवणमित्र निष्फलं व्यचिन्ति । यतः - " मूर्खस्य हृदयं शून्यं दिशः शून्या अबान्धवाः । अपुत्रस्य गृहं शून्यं सर्वशून्या दरिद्रता ॥ १ ॥ यथा यथा नश्यति यौवन श्रीस्तथा तथा तस्य मनोभिलापः । सन्तानदुःखानलतापितस्य, धर्मात्मनो निष्फलतामवाप || २ || वन्ध्यतादोषश्च स्वचेतसि स्वयं चिन्तयामास । विषयोपभोगजन्यसुखेष्वपि तस्य मनोऽभिलाषा चीतामगात् । सहस्रजन परिवेष्टितोऽपि सहायशून्यइवसोऽलक्ष्यत, चक्षुष्मानपि पदार्थाऽवलोकने पराङ्मुखः सकलजनस्याधारभूतोऽपि सनिराधारमिव सन्तानविहीनः स्वममन्यत । तथैव तत्पत्नी श्रीरपि पुत्रचिन्तामकार्षीत् । अथैकस्मिन्दिने सन्तानदुःखदुःखिता शोकनिमप्रमानसा वामहस्ततले निहित भालदेशा सा भामिनी यावदस्थात्, तावत्तत्प्रासादं ॥ ३ ॥
*1100320K
प्रथमः
प्रस्तावः ।