________________
Shri Mahavir Jain Aradhana Kendra
**100/8---
www.kobatirth.org
भजन्तिस्म, व्यापारिणश्चात्र निवसन्तो विपुलधनवन्तो नीतिमन्तो विलसन्तिस्म । प्रमदाजनवातः सर्वाङ्गसुन्दरो निरुपमशोभाऽलङ्कृतो जिनोदितधर्मचर्यानुरक्तचेता व्यलसत् । पौराच देवगुरुभक्तिषु भावितान्तःकरणा जिनालयेषु प्रत्यहं दर्शनार्थं संगता बहुविधपूजा भावनादिप्रकारं वितन्वन्तिस्म । प्रतिस्थानं दिव्यशोभाऽलङ्कृतानि महान्ति जिनमन्दिराणि चकासिरे । यानि विलोकमानो नभोमणिः स्वकीयस्यन्दनभङ्गभयाच्छनैः शनैः प्रचलति, यानिच ध्वजपताकाभिः कम्पमानाभिर्देवानाह्वयन्तीवदूरतो दृश्यन्ते । येषु च स्फटिकमयानि जिनबिम्बानि व्यराजन्त । भव्यजनाः सुकृतप्राचुर्याद्विशुद्धमनसः प्रतिमार्चनादिकां सेवां विधाय त्रिकालं निजजन्मसाफल्यं प्रकुर्वन्तिस्म । यस्य बहिः प्रदेशे सर्वतो रमणीय: शोभाः सर्वजनप्रमोददायका महोद्याना राजन्ते स्म । यत्र सुस्वादूनि फलानि सुगन्धभाञ्जि प्रसूनानि सुकोमला लताप्रतानाश्चपरितः समुल्लसन्तिस्म । यत्र सदैव गृहीतसान्निध्यो वसन्तमासोऽभिलक्ष्यते, प्रतिवृक्षं परिभ्रमन्तो भ्रमरगणा नितान्तं रसलोलुपा मकरन्दप्रिया मधुरं गुञ्जारवं विदधतेस्म । यत्र चाम्रवृक्षेषु निविष्टाः कोकिला मधुरस्वरं कूजन्तिस्म । विशुद्धजलसंभृतेषु कूपवापीतडागेषु जलजिघृक्षया स्त्रीसमूहा नवयौवनाढ्या मूर्द्धसु घृतसुवर्णकलशा विविधभूषाभिः परिकृतावयवा राजवर्त्मनि गमनागमनं कुर्वतेस्म एवं भूरिशोभापात्रं नन्दनपुरनगरं सर्वजननन्दनं प्रशास्त्यरिमर्द्दननामा भूपतिरने कगुणरत्नमहोदधिः प्रजापालनदचः स्वप्रतापेन निर्जितवैरिवारो दिगन्तेषु विस्तृतकीर्त्तिः । प्रत्यहं सकल भूपतयो निहितप्राभृता यमवनिनाथं प्रणेमुः । शिरसि न्यस्ताञ्जलिपुटा नानोपहारदा यिनोऽसिपत्रवदाज्ञाधारिणोऽन्ये चत्रकुलोद्भवा भूरिनृपतयस्तच्छरणं प्रापुः | यदीयं शासनमप्रतिहतं सर्वस्मिन्देशे प्रवर्त्तते । संख्यातीतानि ग्रामनगराणि प्रशास्ति सः ।
For Private And Personal Use Only
Acharya Shri Kasagarsun Gyanmandir
-K+++*****