________________
ShriMahavir JanArchanaKendra
Acharya:shaKailassagarsunGyanmandir
| मश्रुतपूर्वश्चतद्वचनं निशम्य तदङ्गानि सर्वाणि सुधारसेनसिक्तानीवसद्यः सञ्जातरोमाङ्करैः कण्टकितानि बभूवुः । अमन्दानन्दसन्दोहेन विह्वलीभूतमानसोमन्दस्मितेन प्रफुल्लगल्ल: सोऽजनि, प्रमोदरससंभृतात्तस्यहृदयभाजनादमान्प्रेमभरः शुद्धस्फटिकसंकाशरदनकान्तिमिषेण बहिः प्रासीसरत् । तदानीं चञ्चलकनीनिका, हर्षाश्रुविन्दुभिः स्निग्धरोमराजिस्तस्यदृष्टिः सुमतिचन्द्रमभिययौ । तदासोऽपि व्यचिन्तयत्-अहो ! अद्य श्रेष्ठिनोऽभूतपूर्वः प्रमोदभरः संलक्ष्यते, प्रियदर्शनाsपि विकसितवदनारविन्दा विलोक्यते "अतोऽनया श्रेष्ठिन्या गर्भवृत्तान्तो निवेदित इति तेनाऽनुमितिर्विहिता" नान्यदस्मिन्प्रस्तावे प्रहर्षकारणमेतादृशं प्रबलतरं विद्यते, इति विनिश्चित्य सुमतिचन्द्रस्तस्मादुत्थाय किञ्चिच्छेष्ठिसमीपं गत्वा मन्दस्वरेण पपृच्छ-स्वामिन् ? श्रियः स्वप्नार्थः सत्यतयाऽद्यप्रतीयतेकिम् ! प्रियदर्शनायाः प्रफुल्लदृष्टिविलोक्यते, भवानपि समुल्लसत्प्रमोदतयाऽमेयोत्साहकारणं नूतनं वृत्तान्तं श्रुत्वा महानन्दनिमन इव दृश्यते । मन्मानसमपि भूरिकालादेतादृशीं वार्ता जिज्ञासु बभूव । तस्मान्महेभ्य ! शुभवार्ताश्रवणोत्सुकां मममानसलतां मङ्गलवृत्तान्तजलप्रवाहेण प्रशमयाशु । इत्थं निगद्य सुमतिचन्द्रोविरराम. ताबद्रत्नाकरः श्रेष्ठी किश्चिद्विहस्य बभाषे-प्रियसुहृत् ? यद्वाक्यमनयाऽभाथि, तद्यदि सत्यं स्यान्चेत्स्वप्नार्थः स्वेष्टफलदायकोनिष्पन्न इति जानामि, परन्तु प्रियदर्शनायावचनं मे विश्वासपात्रं न प्रतिभाति, यतोऽभाग्यानामस्माकमेतादृशी सुखसम्पत्तिः कुतः सम्भाव्यते ! एतद्वचनश्रवणाानास्माकं भाग्यसम्पत्तिः । यद्यपि प्रियदर्शना वितथं वचोनब्रूयात् , तथापि तादृगायतिसम्बन्धोऽस्माकं विषये कुतोऽपि योगान्न संभाव्यते, इति विज्ञाय सा मुधावचनं मामवोचदितिसम्भावयामि । अतस्त्वं सचरमुत्तिष्ठ, आवा तत्रगत्वा श्रेष्ठिनी पृच्छावइति सुमतिचन्द्रं कथयित्वा सर्वान्सम्यजनान्विसृज्य
For Private And Personlige Only