________________
प्रशस्ति
अन्धकार।
॥१०४॥
ततस्तत्पप्रागवनिधरतिग्मांशुरनघः, विशुद्धार्थान्वेषी विशदजिनधर्मप्रथयिता । उपाध्यायः श्रीमान् सहजजलधिस्तीव्रतपसां, निधिजेज्ञे सर्वा-ऽमरनरगणैः सेव्यचरणः ॥७॥ तत्पट्टपूर्वाचलभानुमाली, श्रीवाचकेन्द्रो जयसागराख्यः । बभूव संतर्जितपश्चबाणः, सिद्धान्ततत्त्वोदधिपारगामी ॥८॥ तत्पप्रथितप्रभावनिकरो रम्यक्षमासेवाधिः, सध्यानेन जितात्मवैरिनिचयः सत्त्वानुकम्पारतः। श्रीमद्वाचकमानसागरगणी रेजे विराजधशाः, सद्धर्मप्रथनकलब्धविजयो दुर्वादिदन्त्यकुशः ॥६॥
तत्पडमेरुशिखरं जितसागराख्यः, प्रद्योतयन् गणिवरो वरदानदक्षः।
बभ्राज भूमितिलकः श्रुतवद्वरेण्यो-धर्माध्वनिस्थितिमतां विदुषां शरण्यः ॥१०॥ तत्पट्टोदयभूधरे दिनमणिर्दीव्यर्द्धिसद्भाजनं, श्रीमन्मङ्गलसागरो गणिवरो निःशेषितापद्गणः । जातोऽनल्पगुणैः समाश्रिततनुः सम्यक्श्रियाराजित,-स्तत्त्वाऽतत्त्वविवेचनैकविदुरः संपन्नसर्वागमः ॥ ११ ॥ तत्पट्टे प्रथिते प्रकाशितमतिः संसत्सुजातस्मृतिः, श्रेयः सन्निधिपद्मसागरगणिर्जज्ञे तपोनायकः । येनेदं भुवनं विशुद्धमनसा चक्रे स्वधर्मान्वितं, जैनेन्द्रप्रथितानुशासनगतिः सर्वत्र विख्यापिता ॥ १२ ॥
तत्पट्टपूर्वगिरिराजदिनेशलक्ष्मी, दधे दयासुभगधर्मधुरन्धरश्रीः । सुज्ञानसागरमुनिर्मुनिमाननीयो-ज्ञानक्रियोभयसमानमतिप्रसारः ॥ १३ ॥ यस्याऽभवच्छिष्यधुरन्धरश्री-भूरिप्रभावोमुनिभावसागरः ।
॥१०॥
For
And Persone
ly