________________
ShriMahavir JanArchanaKendra
www.kobahirihora
Acharya:sha.KailassagarsunGvanmandir
॥ ग्रन्थकारप्रशस्तिः
॥
कल्याणप्रभवं प्रतापतरणि सत्प्रेमवारांनिधि, श्रीमजैनमतप्रकाशनविडं सिद्धार्थभूपाङ्गजम् । सर्वानन्दविधानदक्षविभवं सद्भावनोल्लासितं, वन्देऽहं ललिताकृति जिनवरं श्रीवर्द्धमानं प्रभुम् ॥१॥ यत्पादाम्बुजसेवनैकरसिका सत्यार्थसंशोधकः, सत्संपत्तिपयोजतिग्मकिरणः स्वामी सुधर्माऽभवत् । यद्वाचाविभवो जनेषुविलसत्यद्यापि सिद्धिप्रदो, दुर्वादावनिभृद्धिभेदनपविः सन्मार्गसंदीपकः ॥२॥ तत्पट्टक्रमतो बभूव जगति ख्यातो जगचन्द्रका, सूरीशः शिवदः प्रसाधितसदाचाम्लक्रियः कर्मठः । सिद्धान्तार्थविचक्षणो निजगुरोर्लब्धप्रतापोज्ज्वल-स्तस्मादेवशुभा तपोगणजनिर्जज्ञे जनानन्ददा ॥३॥ तत्पट्टागतसन्ततिक्रमतया प्रौढप्रतापाश्रयः, सरिः श्रीमुनिसुन्दरः समभवद्भव्यात्मना भावितः । येन ग्रन्थततिः कृताऽतिरुचिरा नानार्थरत्नाकरो-योगाङ्गप्रथितोरुबुद्धिविभवेनोल्लासिते भूतले ॥ ४ ॥ तत्पट्टनमतोऽजनिष्ट जनतोद्धर्ताऽतिभास्वद्विभो-लक्ष्मीसागरसरिरुचतमतिर्विद्वजनश्लाधितः । यद्वाक्यामृतपानतो नतजना दीव्यश्रियं लेभिरे, दीव्यं चित्रचरित्रमुन्नतिकरं यस्य त्रिलोकश्रुतम् ॥ ५॥ तत्पट्टक्रमसेवक शिवरमासंसर्गसंसक्तधी,-धीरोधिरबोधका समजनि श्रीहीरसूरीश्वरः। येनेदं पृथिवीतलं विरचितं सार्वज्ञधर्माश्चितं, सत्त्वानामभयप्रदश्चविहितो धर्मोऽतिकम्पामयः ॥६॥
For Private And Personlige Only